अथ स वल्क-दुकूल-कुथाऽऽदिभिः परिगतो ज्वलदुद्धत-वालधिः ।उदपतद्दिवमाकुल-लोचनैर्नृ-रिपुभिः स-भ्यैरभिवीक्षितः ॥
Metre: द्रुतविलम्बितम्
रण-पण्डितोऽग्र्य-विबुधाऽरि-पुरे कलहं स राम-महितः कृतवान् । ज्वलदग्नि रावण-गृहं च बलात्बलहंस्-रामम-हितः कृतवान् ॥
Metre: प्रमिताक्षरा
निखिलाऽभवन्न स-हसा सहसा ज्वलनेन पूः प्रभवता भवता । वनिता-जनेन वियता वियता त्रि-पुराऽपदं नगमिता गमिता ॥
Metre: प्रमिताक्षरा
सरसां स-रसां परिमुच्य तनुं पततां पततां ककुभो बहुशः । स-कलैः सकलैः परितः करुणै- रुदितै रुदितैरिव खं निचितम् ॥
Metre: तोटकम्
न च कांचन काञ्चन-सद्म-चितिं न कपिः शिखिना शिखिना समयौत् । न च न द्रवता द्रवता परितो हिम-हान-कृता न कृता क्व च न ॥
Metre: तोटकम्
अवसितं हसितं प्रसितं मुदा विलसितं ह्रसितं स्मर-भासितम् । न स-मदाः प्रमदा हत-संमदाः पुर-हितं विहितं न समीहितम् ॥
Metre: द्रुतविलम्बितम्
समिद्ध-शरणा दीप्ता देहे लङ्का मतेश्वरा । समिद्-ध-शरणाऽऽदीप्-ता देहेऽलं-काम-तेश्वरा ॥
Metre: अनुष्टुप्
पिशिताऽशिनामनु-दशं स्फुटतां स्फुटतां जगाम परिविह्वल-ता । हलता जनेन बहुधा चरितं चरितं महत्त्व-रहितं महता ॥
Metre: प्रमिताक्षरा
न गजा नग-जा दयिता दयिता वि-गतं विगतं ललितं ललितम् । प्रमदा प्र-मदाऽऽम-हता महता- म-रणं मरणं समयात्समयात् ॥
Metre: तोटकम्
न वानरैः पराक्रान्तां महद्भिर्भीम-विक्रमैः । न वा नरैः पराक्रान्तां ददहा नगरीं कपिः ॥
Metre: अनुष्टुप्