एष्टारमेषिता संख्ये सोढारं सहिता भृशम् । रेष्टारं रेषितं व्यास्यद्रोष्टाऽक्षः शस्त्र-संहतीः ॥
Metre: अनुष्टुप्
शस्त्रैर्दिदेविषुं संख्ये दुद्यूषुः परिघं कपिः ।अर्दिधिषुर्यशः कीर्तिमीर्त्सुं वृक्षैरताडयत् ॥
Metre: अनुष्टुप्
भूयस्तं धिप्सुमाहूय राज-पुत्रं दिदम्भिषुः ।अहंस्ततः स मूर्च्छा-वान्संशिश्रीषुरभूद्ध्वजम् ॥
Metre: अनुष्टुप्
आश्वस्याऽक्षः क्षणाल्लोकान्बिभ्रक्षुरिव तेजसा । रुषा बिभ्रज्जिषु-प्रख्यं कपिं बाणैरवाकिरत् ॥
Metre: अनुष्टुप्
संयुयूषुं दिशो बाणैरक्षं यियविषुर्द्रुमैः । कपिर्मायामिवाऽकार्षीद्दर्शयन्विक्रमं रणे ॥
Metre: अनुष्टुप्
वानरं प्रोर्णुनविषुः शस्त्रैरक्षो विदिद्युते । तं प्रोर्णुनूषुरुपलैः स-वृक्षैराबभौ कपिः ॥
Metre: अनुष्टुप्
स्वां जिज्ञापयिषू शक्तिं बुभूर्षू नु जगन्ति किम् । शस्त्रैरित्यकृषातां तौ पश्यतां बुद्धिमाहवे ॥
Metre: अनुष्टुप्
मायाभिः सु-चिरं क्लिष्ट्वा राक्षसोऽक्लिशित-क्रियम् । संप्राप्य वानरं भूमौ पपात परिघाऽऽहतः ॥
Metre: अनुष्टुप्
पवितोऽनुगुणैर्वातैः शीतैः पूत्वा पयो-निधौ । बभञ्जाऽध्युषितं भुयः क्षुधित्वा पत्रिभिर्वनम् ॥
Metre: अनुष्टुप्
उच्चैरञ्चित-लाङ्गूलः शिरोऽञ्चित्वेव संवहन् । दधद्विलुभितं वातैः केशरं वह्नि-पिङ्गलम् ॥
Metre: अनुष्टुप्