यत्स्व-धर्मम-धर्मं त्वं दुर्-बलं प्रत्यपद्यथाः । रिपौ रामे च निः-शङ्को नैतत्क्षेमंकरं चिरम् ॥
Metre: अनुष्टुप्
अन्वयाऽऽदि-विभिन्नानां यथा सख्यमनीप्सितम् । नैषीर्विरोधमप्येवं सार्धं पुरुष-वानरैः ॥
Metre: अनुष्टुप्
विराधं तपसां विघ्नं जघान विजितो यदि । वरो धनुर्-भृतां रामः स कथं न विवक्षितः ? ॥
Metre: अनुष्टुप्
प्रणश्यन्नपि नाऽशक्नोदत्येतुं बाण-गोचरम् । त्वयैवोक्तं महा-मायो मारीचो राम-हस्तिनः ॥
Metre: अनुष्टुप्
अन्याऽऽसक्तस्य यद्वीर्यं न त्वं स्मरसि वालिनः । मूर्च्छा-वान्नमतः संध्यां ध्रुवं तद्बाहु-पीडितः ॥
Metre: अनुष्टुप्
अ-सद्-बन्धु-विधोपज्ञं विमुञ्च बलि-विग्रहम् । सीतामर्पय नन्तव्ये कोश-दण्डाऽऽत्म-भूमिभिः।" ॥
Metre: अनुष्टुप्
स्फुट-परुषम-सह्यमित्थमुच्चैः सदसि मरुत्-तनयेन भाष्यमाणः । परिजनमभितो विलोक्य दाहं दश-वदनः प्रदिदेश वानरस्य ॥
Metre: पुष्पिताग्रा