अभिमान-फलं जानन्महत्त्वं कथमुक्तवान् । रत्नाऽऽदि-लाभ-शून्य-त्वान्निष्फलं राम-विग्रहम् ॥
Metre: अनुष्टुप्
पर-स्त्री-भोग-हरणं धर्म एव नराऽशिनाम् । मुखमस्तीत्यभाषिष्ठाः का ? मेसाऽऽशङ्कता त्वयि ॥
Metre: अनुष्टुप्
ब्रूहि दूर-विभिन्नानामृद्धि-शील-क्रियाऽन्वयैः। । हनूमन् ! कीदृशं ? सख्यं नर-वानर-रक्षसाम् ॥
Metre: अनुष्टुप्
एको द्वाभ्यां विराधस्तु जिताभ्याम-विवक्षितः । हतश्छलेन मूढोऽयं तेनाऽपि तव कः ? स्मयः ॥
Metre: अनुष्टुप्
मन्-नियोगाच्च मारीचः पलायन-परायणः । युयुत्सा-रहितो रामं ममाराऽपहरन्वने ॥
Metre: अनुष्टुप्
निजघानाऽन्य-संसक्तं सत्यं रामो लता-मृगम् । त्वमेव ब्रूहि संचिन्त्य युक्तं तन्महतां यदि ॥
Metre: अनुष्टुप्
पुंसा भक्ष्येण बन्धूनामात्मानं रक्षितुं वधः । क्षमिष्यते दशाऽऽस्येन क्व-त्येयं तव दुर्-मतिः।" ॥
Metre: अनुष्टुप्
कपिर्जगाद-"दूतोऽहमुपायं तव दर्शने । द्रुम-राक्षस-विध्वंसमकार्षं बुद्धि-पूर्वकम् ॥
Metre: अनुष्टुप्
आ-त्रिकूटमकार्षुर्ये त्वत्-का निर्-जङ्गमं जगत् । दशग्रीव ! कथं ब्रूषे ? तान-वध्याम्मही-पतेः ॥
Metre: अनुष्टुप्
अभिमान-फलं प्रोक्तं यत्त्वया राम-विग्रहे । विनेशुस्तेन शत-शः कुलान्यसुर-रक्षसाम् ॥
Metre: अनुष्टुप्