प्राणयन्तमरिं प्रोचे राक्षसेन्द्रो विभीषणम् । "प्राणिणिषुर्न पापोऽयं योऽभाङ्क्षीत्प्रमदा-वनम् ॥
Metre: अनुष्टुप्
प्राघानिषत रक्षांसि येनाऽऽप्तानि वने मम । न प्रहण्मः कथं पापं वद पूर्वाऽपकारिणम् ॥
Metre: अनुष्टुप्
वेश्माऽन्तर्-हणनं कोपान्मम शत्रोः करिष्यतः । मा कार्षीरऽन्तरयणं प्रयाणाऽर्हमवेह्यमुम् ॥
Metre: अनुष्टुप्
प्रहीण-जीवितं कुर्युर्ये न शत्रुमुपस्थितम् । न्याय्याया अपि ते लक्ष्म्याः कुर्वन्त्याशु प्रहापणम् ॥
Metre: अनुष्टुप्
कः कृत्वा रावणाऽऽमर्ष-प्रकोपणमवद्य-धीः । शक्तो जगति शाक्रोऽपि कर्तुमायुः-प्रगोपणम् ॥
Metre: अनुष्टुप्
वनाऽन्त-प्रेङ्खणः पापः फलानां परिणिंसकः । प्रणिक्षिष्यति नो भूयः प्रणिन्द्याऽस्मान्मधून्ययम् ॥
Metre: अनुष्टुप्
हरेः प्रगमनं नाऽस्ति न प्रभानं हिम-द्रुहः । नाऽति-प्रवेपनं वायोर्मया गोपायिते वने ॥
Metre: अनुष्टुप्
दुष्पानः पुनरेतेन कपिना भृङ्ग-संभृतः । प्रनष्ट-विनयेनाऽग्र्यः स्वादुः पुष्पाऽऽसवो वने" ॥
Metre: अनुष्टुप्
रोष-भीम-मुखेनैवं क्षुभ्नतोक्ते प्लवङ्गमः । प्रोचे साऽऽनुनयं वाक्यं रावणं स्वाऽर्थ-सिद्धये ॥
Metre: अनुष्टुप्
"दूतमेकं कपिं बद्धमानीतं वेश्म पश्यतः । लोक-त्रय-पतेः क्रोधः कथं तृण-लघुस्तव ॥
Metre: अनुष्टुप्