विषसादेन्द्रजिद्बुद्ध्वा बन्धे बन्धाऽन्तरक्रियाम् । दिव्य-बन्धो विषहते नाऽपरं बन्धनं यतः ॥
Metre: अनुष्टुप्
मुष्णन्तमिव तेजांसि विस्तीर्णोरस्-स्थलं पुरः ।उपसेदुर्दश-ग्रीवं गृहीत्वा राक्षसाः कपिम् ॥
Metre: अनुष्टुप्
बहुधा भिन्न-मर्माणो भीमाः खरणसाऽऽदयः ।अग्रे-वणं वर्तमाने प्रतीच्यां चन्द्र-मण्डले ॥
Metre: अनुष्टुप्
"निर्वणं कृतमुद्यानमनेनाऽऽम्रवणाऽऽदिभिः । देवदारु-वनामिश्रै" रित्यूचुर्वानर-द्विषः ॥
Metre: अनुष्टुप्
उपास्थिषत संप्रीताः पूर्वाह्णे रोष-वाहणम् । राक्षसाः कपिमादाय पतिं रुधिर-पायिणाम् ॥
Metre: अनुष्टुप्
सुरा-पाण-परिक्षीबं रिपु-दर्प-हरोदयम् । पर-स्त्री-वाहिनं प्रायुः साऽऽविष्कारं सुरा-पिणः ॥
Metre: अनुष्टुप्
संघर्ष-योगिणः पदौ प्रणेमुस्त्रिदश-द्विषः । प्रहिण्वन्तो हनूमन्तं प्रमीणन्तं द्विषन्-मतीः ॥
Metre: अनुष्टुप्
"प्रवपाणि शिरो भूमौ वानरस्य वनच्छिदः" ।आमन्त्रयत संक्रुद्धः समितिं रक्षसां पतिः ॥
Metre: अनुष्टुप्
प्रण्यगादीत्प्रणिघ्नन्तं घनः प्रणिनदन्निव । ततः प्रणिहितः स्वाऽर्थे राक्षसेन्द्रं विभीषणः ॥
Metre: अनुष्टुप्
"प्रणिशाम्य दशा-ग्रीव ! प्रणियातुमलं रुषम् । प्रणिजानीहि हन्यन्ते दूता दोषे न सत्यपि।" ॥
Metre: अनुष्टुप्