अथ नयन-मनो-हरोऽभिरामः स्मर इव चित्त-भवोऽप्य-वाम-शीलः । रघु-सुतमनुजो जगाद वाचं स-जल-घन-स्तनयित्नु-तुल्य-घोषः ॥
Metre: पुष्पिताग्रा
"पति-वध-परिलुप्त-लोल-केशीर्नयन-जलाऽपहृताऽञ्जनौष्ठ-रागाः । कुरु रिपु-वनिता जहीहि शोकं क्व च शरणं जगतां भवान्क्व मोहः ॥
Metre: पुष्पिताग्रा
अधिगत-महिमा मनुश्य-लोके वत सुतरामवसीदति प्रमादी । गज-पतिरुरु-शैल-शृङ्ग-वर्ष्मा गुरुरवमज्जति पङ्क-भाङ्न दारु ॥
Metre: पुष्पिताग्रा
बोद्धव्यं किमिव हि यत्त्वया न बुद्धं किं वा ते निमिषितमप्य-बुद्धि-पूर्वम् । लब्धाऽऽत्मा तव सुकृतैरनिष्ट-शङ्की स्नेहौघो घटयति मां तथापि वक्तुम्।" ॥
Metre: प्रहर्षिणी
सौमित्रेरिति वचनं निशम्य रामो जृम्भा-वान्भुज-युगलं विभज्य निद्रान् ।अध्यष्ठाच्छिशयिषया प्रवाल-तल्पं रक्षायै प्रति-दिशमादिशन्प्लवङ्गान् ॥
Metre: प्रहर्षिणी