अग्न्याहित-जन-प्रह्वे विजिगीषा-पराङ्मुखे। । कस्माद्वा नीति-निष्णस्य संरम्भस्तव तापसे ॥
Metre: अनुष्टुप्
न सर्व-रात्र-कल्यान्यः स्त्रियो वा रत्न-भूमयः । यं विनिर्जित्य लभ्यन्ते कः कुर्यात्तेन विग्रहम् ॥
Metre: अनुष्टुप्
संगच्छ राम-सुग्रीवौ भुवनस्य समृद्धये । रत्न-पूर्णाविवाऽम्भोधी हिमवान्पूर्व-पश्चिमौ ॥
Metre: अनुष्टुप्
सुहृदौ राम-सुग्रीवौ किंकराः कपि-यूथ-पाः । पर-दाराऽर्पणेनैव-लभ्यन्ते मुञ्च मैथिलीम् ॥
Metre: अनुष्टुप्
धर्मं प्रत्यर्पयन्सीतामर्थं रामेण मित्रताम् । कामं विश्वास-वासेन सीतां दत्त्वाऽऽप्नुहि त्रयम् ॥
Metre: अनुष्टुप्
विराध-ताडका-वालि-कबन्ध-खर-दूषणैः । न च न ज्ञापितो यादृड्मारीचेनाऽपि ते रिपुः ॥
Metre: अनुष्टुप्
खराऽऽदि-निधनं चाऽपि मा मंस्था वैर-कारणम् ।आत्मानं रक्षितुं यस्मात्कृतं तन्न जिगीषया" ॥
Metre: अनुष्टुप्
ततः क्रोधाऽनिलाऽऽपात- कम्प्राऽऽस्याऽम्भोज-संहतिः । महा-ह्रद इव क्षुभ्यन्कपिमाह स्म रावणः ॥
Metre: अनुष्टुप्
"हत-राक्षस-योधस्य विरुग्णोद्यान-शाखिनः । दूतोऽस्मीति ब्रुवाणस्य किं ? दूत-सदृशं तव ॥
Metre: अनुष्टुप्
पङ्गु-बाल-स्त्रियो निघ्नन्कबन्ध खर-ताडकाः । तपस्वी यदि काकुत्स्थः कीदृक् ? कथय पातकी ॥
Metre: अनुष्टुप्