यथा-स्वं संगिरन्ते स्म गोष्ठीषु स्वामिनो गुणान् । पान-शौण्डाः पथः क्षीबा वृन्दैरुदचरन्त च ॥
Metre: अनुष्टुप्
यानैः समचरन्ताऽन्ये कुञ्जराऽश्व-रथाऽऽदिभिः । संप्रायच्छन्त बन्दीभिरन्ये पुष्प-फलं शुभम् ॥
Metre: अनुष्टुप्
कोपात्काश्चित्प्रियैः प्रत्तमुपायंसत नाऽऽसवम् । प्रेम जिज्ञासमानाभ्यस्ताभ्योऽऽशप्सत कामिनः ॥
Metre: अनुष्टुप्
प्रादिदृक्षत नो नृत्यं नाऽशुश्रूषत गायनान् । रामं सुस्मूर्षमाणोऽसौ कपिर्विरह-दुःखितम् ॥
Metre: अनुष्टुप्
अनुजिज्ञासतेवाऽथ लङ्का-दर्षनमिन्दुना । तमोऽपहविमुक्तांऽशु पूर्वस्यां दिश्युदैयत ॥
Metre: अनुष्टुप्
आशुश्रूषन्स मैथिल्या वार्तां हर्म्येषु रक्षसाम् । शीयमानऽन्धकारेषु समचारीद-शङ्कितः ॥
Metre: अनुष्टुप्
शत-साहस्रमारक्षं मध्यगं रक्षसां कपिः । ददर्श यं कृतान्तोऽपि म्रियेताऽऽसाद्य भीषणम् ॥
Metre: अनुष्टुप्
अध्यासिसिषमाणेऽथ वियन्-मध्यं निशा-करे । कासांचक्रे पुरी सौघैरतीवोद्भासिभिः सितैः ॥
Metre: अनुष्टुप्
इन्दुं चषक-संक्रान्तमुपायुङ्क्त यथाऽमृतम् । पयुञ्जानः प्रिया वाचः समाजाऽनुरतो जनः ॥
Metre: अनुष्टुप्
संक्ष्णुवान इवोत्कण्ठामुपाभुङ्क्त सुरामलम् । ज्योत्स्नायां विगलन्-मानस्तरुणो रक्षसां गणः ॥
Metre: अनुष्टुप्