किरातार्जुनीयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

किरातार्जुनीयम्

Enable Parallel


Showing 41 to 50 of 78 verses
Verse 41
योषितः पुलकरोधि दधत्या घर्मवारि नवसंगमजन्म । कान्तवक्षसि बभूव पतन्त्या मण्डनं लुलितमण्डनतैव ॥
Metre: स्वागता

Verse 42
शीधुपानविधुरासु निगृह्णन्मानमाशु शिथिलीकृतलज्जः । संगतासु दयितैरुपलेभे कामिनीषु मदनो नु मदो नु ॥
Metre: स्वागता

Verse 43
द्वारि चक्षुरधिपाणि कपोलौ कीवितं त्वयि कुतः कलहोऽस्याः । कामिनामिति वचः पुनरुक्तं प्रीतये नवनवत्वमियाय ॥
Metre: स्वागता

Verse 44
साचि लोचनयुगं नमयन्ती रुन्धती दयितवक्षसि पातम् । सुभ्रुवो जनयति स्म विभूषां संगतावुपरराम च लज्जा ॥
Metre: स्वागता

Verse 45
सव्यलीकमवधीरितखिन्नं प्रस्थितं सपदि कोपपदेन । योषितः सुहृदिव स्म रुणद्धि प्राणनाथमभिबाष्पनिपातः ॥
Metre: स्वागता

Verse 46
शङ्किताय कृतबाष्पनिपातामीर्ष्यया विमुखितां दयिताय । मानिनिमभिमुखाहितचित्तां शंसति स्म घनरोमविभेदः ॥
Metre: आर्यागीति (१२, २०, १२, २०)

Verse 47
लोलदृष्टि वदनं दयितायाश्चुम्बति प्रियतमे रभसेन । व्रीडया सह विनीवि नितम्बादंशुकं शिथिलतामुपपदे ॥
Metre: आर्यागीति (१२, २०, १२, २०)

Verse 48
ह्रीतय अगलितनीवि निरस्यन्नन्तरीयमवलम्बितकाञ्चि । मण्डलीकृतपृथुस्तनभारं सस्वजे दयितया हृदयेशः ॥
Metre: आर्यागीति (१२, २०, १२, २०)

Verse 49
आदृता नखपदैः परिरम्भाश्चुम्बितानि घनदन्तनिपातैः । सौकुमार्यगुणसम्भृतकीर्तिर्वाम एव सुरतेष्वपि कामः ॥
Metre: स्वागता

Verse 50
पाणिपल्लवविधूननमन्तः सीत्कृतानि नयनार्धनिमेषाः । योषितां रहसि गद्गदवाचामस्त्रतामुपययुर्मदनस्य ॥
Metre: स्वागता