प्रकृतमनुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा । प्रथममुपहितं विलासि चक्षुः सिततुरगे न चचाल नर्तकीनाम् ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अभिनयमनसः सुराङ्गनाया निहितमलक्तकवर्तनाभिताम्रम् । चरणमभिपपात षट्पदाली धुतनवलोहितपङ्कजाभिशङ्का ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अविरलमलसेषु नर्तकीनां द्रुतपरिषिक्तमलक्तकं पदेषु । सवपुषामिव चित्तरागमूहुर्नमितशिखानि कदम्बकेसराणि ॥
नृपसुतमभितः समन्मथायाः परिजनगात्रतिरोहिताङ्गयष्टेः । स्फुटमभिलषितं बभूव वध्वा वदति हि संवृतिरेव कामितानि ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे । चकितमवसनोरु सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
धृतबिसवलये निधाय पाणौ मुखमधिरूषितपाण्डुगण्डलेखम् । नृपसुतमपरा स्मराभितापादमधुमदालसलोचनं निदध्यौ ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
सखि दयितमिहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता । हृदयमहृदया न नाम पूर्वं भवदुपकण्ठमुपागतं विवेद ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
चिरमपि कलितान्यपारयन्त्या परिगदितुं परिशुष्यता मुखेन । गतघृण गमितानि सत्सखीनां नयनयुगैः सममार्द्रतां मनांसि ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्याम् । भृशमरतिमवाप्य तत्र चास्यास्तव सुखशीतमुपैतुमङ्कमिच्छा ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
तदनघ तनुरस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे । पुनरपि सुलभं तपोऽनुरागी युवतिजनः खलु नाप्यतेऽनुरूपः ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४