जहिहि कठिनतां प्रयच्छ वाचं ननु करुणामृदु मानसं मुनीनाम् । उपगतमवधीरयन्त्यभव्याः स निपुणमेत्य कयाचिदेवमूचे ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
सललितचलितत्रिकाभिरामाः शिरसिजसंयमनाकुलैकपाणिः । सुरपतितनयेऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धम् ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
कुसुमितमवलम्ब्य चूतमुच्चैस्तनुरिभकुम्भपृथुस्तनानताङ्गी । तदभिमुखमनङ्गचापयष्टिर्विसृतगुणेव समुन्ननाम काचित् ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
सरभसमवलम्ब्य नीलमन्या विगलितनीवि विलोलमन्तरीयम् । अभिपतितुमनाः ससाध्वसेव च्युतरशनागुणसंदितावतस्थे ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
यदि मनसि शमः किमङ्ग चापं शठ विषयास्तव वल्लभा न मुक्तिः । भवतु दिशति नान्यकामिनीभ्यस्तव हृदये हृदयेश्वरावकाशम् ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
इति विषमितचक्षुषाभिधाय स्फुरदधरोष्ठमसूयया कयाचित् । अगणितगुरुमानलज्जयासौ स्वयमुरसि श्रवणोत्पलेन जघ्ने ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
सविनयमपराभिसृत्य साचि स्मितसुभगैकलसत्कपोललक्ष्मीः । श्रवणनियमितेन तं निदध्य सकलमिवासकलेन लोचनेन ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
करुणमभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तमश्रु ताभिः । प्रकुपितमभिसारणेऽनुनेतुं प्रियमियती ह्यबलाजनस्य भूमिः ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
असकलनयनेक्षितानि लज्जा गतमलसं परिपाण्डुता विषादः । इति विविधमियाय तासु भूषां प्रभवति मण्डयितुं वधूरनङ्गः ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अलसपदमनोरमं प्रकृत्या जितकलहंसवधूगति प्रयातम् । स्थितमुरुजघनस्थलातिभारादुदितपरिश्रमजिह्मितेक्षणं वा ॥