तामैक्षन्त क्षणं सभ्या दुःशासनपुरःसराम् । अभिसायार्कमावृत्तां छायामिव महातरोः ॥
Metre: अनुष्टुप्
अयथार्थक्रियारम्भैः पतिभिः किं तवेक्षितैः । अरुध्येतामितीवास्या नयने बाष्पवारिणे ॥
Metre: अनुष्टुप्
सोढवान्नो दशामन्त्यां ज्यायानेव गुणप्रियः । सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्ववाच्यता ॥
Metre: अनुष्टुप्
स्थित्यतिक्रान्तिभीरूणि स्वच्छान्याकुलितान्यपि । तोयानि तोयराशीनां मनांसि च मनस्विनाम् ॥
Metre: अनुष्टुप्
धार्तराष्ट्रैः सह प्रीतिर्वैरमस्मास्वसूयत । असन्मैत्री हि दोषाय कूलच्छायेव सेविता ॥
Metre: अनुष्टुप्
अपवादादभीतस्य समस्य गुणदोषयोः । असद्वृत्तेरहोवृत्तं दुर्विभावं विधेरिव ॥
Metre: अनुष्टुप्
ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः । यद्यमर्षः प्रतीकारं भुजालम्बं न लम्भयेत् ॥
Metre: अनुष्टुप्
अवधूयारिभिर्नीता हरिणैस्तुल्यवृत्तिताम् । अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् ॥
Metre: अनुष्टुप्
शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः । जन्मिनो मानहिनस्य तृणस्य च समा गतिः ॥
Metre: अनुष्टुप्
अलङ्घ्यं तत्तदुद्वीक्ष्य यद्यदुच्चैर्महीभृताम् । प्रियतां ज्यायसीं मा गान्महतां केन तुङ्गता ॥
Metre: अनुष्टुप्