मथिताम्भसो रयविकीर्णमृदितकदलीगवेधुकाः । क्लान्तजलरुहलताः सरसीर्विदधे निदाघ इव सत्त्वसम्प्लवः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
इति चालयन्नचलसानुवनगहनजानुमापतिः । प्राप मुदितहरिणीदशनक्षतवीरुधं वसतिमैन्द्रसूनवीम् ॥
Metre: उपजातिः
स तमाससाद घननीलमभिमुखमुपस्थितं मुनेः । पित्रनिकषणविभिन्नभुवं दनुजं दधानमथ सौकरं वपुः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
कच्छान्ते सुरसरितो निधाय सेनामन्वतिः सकतिपयैः किरातवर्यैः । प्रच्छन्नस्तरुगहनैः सगुल्मजालैर्लक्ष्मीवाननुपदमस्य सम्प्रतस्थे ॥
Metre: प्रहर्षिणी