मित्रमिष्टमुपकारि संशये मेदिनीपतिरयं तथा च ते । तं विरोध्य भवता निरासि मा सज्जनैकवसतिः कृतज्ञता ॥
Metre: रथोद्धता
लभ्यमेकसुकृतेन दुर्लभा रक्षितारमसुरक्ष्यभूतयः । स्वन्तमन्तविरसा जिगीषतां मित्रलाभमनु लाभसम्पदः ॥
Metre: रथोद्धता
चञ्चलं वसु नितान्तमुन्नता मेदिनीमपि हरन्त्यरातयः । भूधरस्थिरमुपेयमागतं मावमंस्त सुहृदं महीपतिम् ॥
Metre: रथोद्धता
जेतुमेव भवता तपस्यते नायुधानि दधते मुमुक्षवः । प्राप्स्यते च सकलं महीभृता संगतेन तपसः फलं त्वया ॥
Metre: रथोद्धता
वाजिभूमिरिभराजकाननं सन्ति रत्ननिचयाश्च भूरिशः । काञ्चनेन किमिवास्य पत्त्रिणा केवलं न सहते विलङ्घनम् ॥
Metre: रथोद्धता
सावलेपमुपलिप्सते परैरभ्युपैति विकृतिं रजस्यपि । अर्थितस्तु न महान्समीहते जीवितं किमु धनं धनायितुम् ॥
Metre: रथोद्धता
तत्तदीयविशिखातिसर्जनादस्तु वां गुरु यदृच्छयागतम् । राघवप्लवगराजयोरिव प्रेम युक्तमितरेतराश्रयम् ॥
Metre: रथोद्धता
नाभियोक्तुमनृतं त्वमिष्यते कस्तपस्विविशिखेषु चादरः । सन्ति भूभृति शरा हि नः परे ये पराक्रमवसूनि वज्रिणः ॥
Metre: रथोद्धता
मार्गणैरथ तव प्रयोजनं नाथसे किमु पतिं न भूभृतः । त्वद्विधं सुहृदमेत्य स अर्थिनं किं न यच्छति विजित्य मेदिनीम् ॥
Metre: रथोद्धता
तेन सूरिरुपकारिताधनः कर्तुमिच्छति न याचितं वृथा । सीदतामनुभवन्निवार्थिनां वेद यत्प्रणयभङ्गवेदनाम् ॥
Metre: रथोद्धता