किरातार्जुनीयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

किरातार्जुनीयम्

Enable Parallel


Showing 51 to 60 of 65 verses
Verse 51
विमुक्तमाशंसितशत्रुनिर्जयैरनेकमेकावसरं वनेचरैः । स निर्जघानायुधमन्तरा शरैः क्रियाफलं काल इवातिपातितः ॥
Metre: वंशस्थम्

Verse 52
गतैः परेषामविभावनीयतां निवारयद्भिर्विपदं विदूरगैः । भृशं बभूवोपचितो बृहत्फलैः शरैरुपायैरिव पाण्डुनन्दनः ॥
Metre: वंशस्थम्

Verse 53
दिवः पृथिव्याः ककुभां नु मण्डलात्पतन्ति बिम्बादुत तिग्मतेजसः । सकृद्विकृष्टादथ कार्मुकान्मुनेः शराः शरीरादिति तेऽभिमेनिरे ॥
Metre: वंशस्थम्

Verse 54
गणाधिपानामविधाय निर्गतैः परासुतां मर्मविदारणैरपि । जवादतीये हिमवानधोमुखैः कृतापराधैरिव तस्य पत्त्रिभिः ॥
Metre: वंशस्थम्

Verse 55
द्विषां क्षतीर्याः प्रथमे शिलामुखा विभिद्य देहावरणानि चक्रिरे । न तासु पेते विशिखैः पुनर्मुनेररुंतुदत्वं महतां ह्यगोचरः ॥
Metre: वंशस्थम्

Verse 56
समुज्झिता यावदराति निर्यती सहैव चापान्मुनिबाणसंहतिः । प्रभा हिमांशोरिव पङ्कजावलिं निनाय संकोचमुमापतेश्चमूम् ॥
Metre: वंशस्थम्

Verse 57
अजिह्ममोजिष्ठममोघमक्लमं क्रियासु बह्वीषु पृथङ्नियोजितम् । प्रसेहिरे सादयितुं न सादिताः शरौघमुत्साहमिवास्य विद्विषः ॥
Metre: वंशस्थम्

Verse 58
शिवध्वजिन्यः प्रतियोधमग्रतः स्फुरन्तमुगेषुमयूखमालिनम् । तमेकदेशस्थमनेकदेशगा निदध्युरर्कं युगपत्प्रजा इव ॥
Metre: वंशस्थम्

Verse 59
मुनेः शरौघेण तदुग्ररंहसा बलं प्रकोपादिव विष्वगायता । विधूनितं भ्रान्तिमियाय सङ्गिनीं महानिलेनेव निदाघजं रजः ॥
Metre: वंशस्थम्

Verse 60
तपोबलेनैष विधाय भूयसीस्तनूरदृश्याः स्विदिषून्निरस्यति । अमुष्य मायाविहतं निहन्ति नः प्रतीपमागत्य किमु स्वमायुधम् ॥
Metre: वंशस्थम्

Showing 51 to 60 of 65 verses