किरातार्जुनीयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

किरातार्जुनीयम्

Enable Parallel


Showing 31 to 40 of 71 verses
Verse 31
स गतः क्षितिमुष्णशोणितार्द्रः खुरदंष्ट्राग्रनिपातदारिताश्मा । असुभिः क्षणमीक्षितेन्द्रसूनिर्विहितामर्षगुरुध्वनिर्निरासे ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४

Verse 32
स्फुटपौरुषमापपात पार्थस्तमथ प्राज्यशरः शरं जिघृक्षुः । न तथा कृतवेदिनां करिष्यन्प्रियतामेति यथा कृतावदानः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४

Verse 33
उपकार इवासति प्रयुक्तः स्थितिमप्राप्य मृगे गतः प्रणाशम् । कृतशक्तिरवाङ्मुखो गुरुत्वाज्जनितव्रीड इवात्मपौरुषेण ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४

Verse 34
स समुद्धरता विचिन्त्य तेन स्वरुचं कीर्तिमिवोत्तमां दधानः । अनुयुक्त इव स्ववार्तमुच्चैः परिरेभे नु भृशं विलोचनाभ्याम् ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४

Verse 35
तत्र कार्मुकभृतं महाभुजः पश्यति स्म सहसा वनेचरम् । संनिकाशयितुमग्रतः स्थितं शासनं कुसुमचापविद्विषः ॥
Metre: रथोद्धता

Verse 36
स प्रयुज्य तनये महीपतेरात्मजातिसदृशीं किलानतिम् । सान्त्वपूर्वमभिनीतिहेतुकं वक्तुमित्थमुपचक्रमे वचः ॥
Metre: रथोद्धता

Verse 37
शान्तता विनययोगि मानसं भूरिधाम विमलं तपः श्रुतम् । प्राह ते नु सदृशी दिवौकसामन्ववायमवदातमाकृतिः ॥
Metre: रथोद्धता

Verse 38
दीपितस्त्वमनुभावसम्पदा गौरवेण लघयन्महीभृतः । राजसे मुनिरपीह कारयन्नाधिपत्यमिव शातमन्यवम् ॥
Metre: रथोद्धता

Verse 39
तापसोऽपि विभुतामुपेयिवानास्पदं त्वमसि सर्वसम्पदाम् । दृश्यते हि भवतो विना जनैरन्वितस्य सचिवैरिव द्युतिः ॥
Metre: रथोद्धता

Verse 40
विस्मयः क इव वा जयश्रिया नैव मुक्तिरपि ते दवीयसी । ईप्सितस्य न भवेदुपाश्रयः कस्य निर्जितरजस्तमोगुणः ॥
Metre: रथोद्धता