अवलीढसनाभिरश्वसेनः प्रसभं खाण्डवजातवेदसा वा । प्रतिकर्तुमुपागतः समन्युः कृतमन्युर्यदि वा वृकोदरेण ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
बलशालितया यथा तथा वा धियमुच्छेदपरामयं दधानः । नियमेन मया निबर्हणीयः परमं लाभमरातिभङ्गमाहुः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
कुरु तात तपांस्यमार्गदायी विजयायेत्यलमन्वशान्मुनिर्माम् । बलिनश्च वधाद् ऋतेऽस्य शक्यं व्रसंरक्षणमन्यथा न कर्तुम् ॥
इति तेन विचिन्त्य चापनाम प्रथमं पौरुषचिह्नमाललम्बे । उपलब्धगुणः परस्य भेदे सचिवः शुद्ध इवाददे च बाणः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
अनुभाववता गुरु स्थिरत्वादविसंवादि धनुर्धनंजयेन । स्वबलव्यसनेऽपि पीड्यमानं गुणवन्मित्रमिवानतिं प्रपेदे ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
प्रविकर्षनिनादभिन्नरन्ध्रः पदविष्टम्भनिपीडितस्तदानीम् । अधिरोहति गाण्डिवं महेषौ सकलः संशयमारुरोह शैलः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
ददृशेऽथ सविस्मयं शिवेन स्थिरपूर्णायतचापमण्डलस्थः । रचितस्तिसृणां पुरां विधातुं वधमात्मेव भयानकः परेषाम् ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
विचकर्ष च संहितेषुरुच्चैश्चरणास्कन्दननामिताचलेन्द्रः । धनुरायतभोगवासुकिज्यावदनग्रन्थिविमुक्तवह्नि शम्भुः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
स भवस्य भवक्षयैकहेतोः सितसप्तेश्च विधास्यतोः सहार्थम् । रिपुराप पराभवाय मध्यं प्रकृतिप्रत्यययोरिवानुबन्धः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
अथ दीपितवारिवाहवर्त्मा रववित्रासितवारणादवार्यः । निपपात जवादिषु पिनाकान्महतोऽभ्रादिव वैद्युतः कृशानुः ॥