किरातार्जुनीयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

किरातार्जुनीयम्

Enable Parallel


Showing 41 to 50 of 71 verses
Verse 41
ह्रेपयन्नहिमतेजसं त्विषा स त्वमित्थमुपपन्नपौरुषः । हर्तुमर्हसि वराहभेदिनं नैनमस्मदधिपस्य सायकम् ॥
Metre: रथोद्धता

Verse 42
स्मर्यते तनुभृतां सनातनं न्याय्यमाचरितमुत्तमैर्नृभिः । ध्वंसते यदि भवादृशस्ततः कः प्रयातु वद तेन वर्त्मना ॥
Metre: रथोद्धता

Verse 43
आकुमारमुपदेष्टुमिच्छवः संनिवृत्तिमपथान्महापदः । योगशक्तिजितजन्ममृत्यवः शीलयन्ति यतयः सुशीलताम् ॥
Metre: रथोद्धता

Verse 44
तिष्ठतां तपसि पुण्यमासजन्सम्पदोऽनुगुणयन्सुखैषिणाम् । योगिनां परिणमन्विमुक्तये केन नास्तु विनयः सतां प्रियः ॥
Metre: रथोद्धता

Verse 45
नूनमत्रभवतः शराकृतिं सर्वथायमनुयाति सायकः । सोऽयमित्यनुपपन्नसंशयः कारितस्त्वमपथे पदं यया ॥
Metre: रथोद्धता

Verse 46
अन्यदीयविशिखे न केवलं निःस्पृहस्य भवितव्यमाहृते । निघ्नतः परनिबर्हितं मृगं व्रीडितव्यमपि ते सचेतसः ॥
Metre: रथोद्धता

Verse 47
संततं निशमयन्त उत्सुका यैः प्रयान्ति मुदमस्य सूरयः । कीर्तितानि हसितेऽपि तानि यं व्रीडयन्ति चरितानि मानिनम् ॥
Metre: रथोद्धता

Verse 48
अन्यदोषमिव सः स्वकं गुणं ख्यापयेत्कथमधृष्टताजडः । उच्यते स खलु कार्यवत्तया धिग्विभिन्नबुधसेतुमर्थिताम् ॥
Metre: रथोद्धता

Verse 49
दुर्वचं तदथ मा स्म भून्मृगस्त्वावसौ यदकरिष्यदोजसा । नैनमाशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्त्रिणा ॥
Metre: रथोद्धता

Verse 50
को न्विमं हरितुरङ्गमायुधस्थेयसीं दधतमङ्गसंहतिम् । वेगवत्तरमृते चमूपतेर्हन्तुमर्हति शरेण दंष्ट्रिणम् ॥
Metre: रथोद्धता