किरातार्जुनीयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

किरातार्जुनीयम्

Enable Parallel


Showing 61 to 70 of 71 verses
Verse 61
शक्तिरर्थपतिषु स्वयंग्रहं प्रेम कारयति वा निरत्ययम् । कारणद्वयमिदं निरस्यतः प्रार्थनाधिकबले विपत्फला ॥
Metre: रथोद्धता

Verse 62
अस्त्रवेदमधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः । जामदग्न्यमपहाय गीयते तापसेषु चरितार्थमायुधम् ॥
Metre: रथोद्धता

Verse 63
अभ्यघानि मुनिचापलात्त्वया यन्मृगः क्षितिपतेः परिग्रहः । अक्षमिष्ट तदयं प्रमाद्यतां संवृणोति खलु दोषमज्ञता ॥
Metre: रथोद्धता

Verse 64
जन्मवेषतपसां विरोधिनीं मा कृथाः पुनरमूमपक्रियाम् । आपदेत्युभयलोकदूषणी वर्तमानमपथे हि दुर्मतिम् ॥
Metre: रथोद्धता

Verse 65
यष्टुमिच्छसि पितॄन्न साम्प्रतं संवृतोऽर्चिचयिषुर्दिवौकसः । दातुमेव पदवीमपि क्षमः किं मृगेऽङ्ग विशिखं न्यवीविशः ॥
Metre: रथोद्धता

Verse 66
सज्जनोऽसि विजहीहि चापलं सर्वदा क इव वा सहिष्यते । वारिधीनिव युगान्तवायवः क्षोभयन्त्यनिभृता गुरूनपि ॥
Metre: रथोद्धता

Verse 67
अस्त्रवेदविदयं महीपतिः पर्वतीय इति मावजीगणः । गोपितुं भुवमिमां मरुत्वता शैलवासमनुनीय लम्भितः ॥
Metre: रथोद्धता

Verse 68
तत्तितिक्षितमिदं मया मुनेरित्यवोचत वचश्चमूपतिः । बाणमत्रभवते निजं दिशन्नाप्नुहि त्वमपि सर्वसम्पदः ॥
Metre: रथोद्धता

Verse 69
आत्मनीनमुपतिष्ठते गुणाः सम्भवन्ति विरमन्ति चापदः । इत्यनेकफलभाजि मा स्म भूदर्थिता कथमिवार्यसंगमे ॥
Metre: रथोद्धता

Verse 70
दृश्यतामयमनोकहान्तरे तिग्महेतिपृतनाभिरन्वितः । साहिवीचिरिव सिन्धुरुद्धतो भूपतिः समयसेतुवारितः ॥
Metre: रथोद्धता

Showing 61 to 70 of 71 verses