वदनेन पुष्पितलतान्तनियमितविलम्बितमौलिना । बिभ्रदरुणनयनेन रुचं शिखिपिच्छलाञ्छितकपोलभित्तिना ॥
बृहदुद्वहञ्जलदनादि धनुरुपहितैकमार्गणम् । मेघनिचय इव संववृते रुचिरः किरातपृतनापतिः शिवः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
अनुकूलमस्य च विचिन्त्य गणपतिभिरात्तविग्रहैः । शूलपरशुशरचापभृतैर्महती वनेचरचमूर्विनिर्ममे ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
विरचय्य काननविभागमनुगिरमथेश्वराज्ञया । भीमनिनदपिहितोरुभुवः परितोऽपदिश्य मृगयां प्रतस्थिरे ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
क्षुभिताभिनिःसृतविभिन्नशकुनिमृगयूथनिःस्वनैः । पूर्णपृथुवनगुहाविवरः सहसा भयादिव ररास भूधरः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
न विरोधिनी रुषमियाय पथि मृगविहङ्गसंहतिः । घ्नन्ति सहजमपि भूरिभियः सममागताः सपदि वैरमापदः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
चमरीगणैर्गणबलस्य बलवति भयेऽप्युपस्थिते । वंशविततिषु विषक्तपृथुप्रियबालवालधिभिराददे धृतिः ॥
Metre: उपजातिः
हरसैनिकाः प्रतिभयेऽपि गजमदसुगन्धिकेसरैः । स्वस्थमभिददृशिरे सहसा प्रतिबोधजृम्भमुखैर्मृगाधिपैः ॥
Metre: आर्या (१२, १८, १२, १५)
बिभरांबभूवुरपवृत्तजठरशफरीकुलाकुलाः । पङ्कविषमिततटाः सरितः करिरुग्णचन्दनरसारुणं पयः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
महिषक्षतागुरुतमालनलदसुरभिः सदागतिः । व्यस्तशुकनिभशिलाकुसुमः प्रणुदन्ववौ वनसदां परिश्रमम् ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]