अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् । क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनंजयः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
अभिरश्मिमालि विमलस्य धृतजयधृतेरनाशुषः । तस्य भुवि बहुतिथास्तिथयः प्रतिजग्मुरेकचरणं निषीदतः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
वपुरिन्द्रियोपतपनेषु सततमसुखेषु पाण्डवः । व्याप नगपतिरिव स्थिरतां महतां हि धैर्यमविभाव्यवैभवम् ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
न पपात संनिहितपक्तिसुरभिषु फलेषु मानसम् । तस्य शुचिनि शिशिरे च पयस्यमृतायते हि सुतपः सुकर्मणाम् ॥
Metre: उद्गीति (१२, १५, १२, १८)
न विसिस्मिये न विषसाद मुहुरलसतां नु चाददे । सत्त्वमुरुधृति रजस्तमसी न हतः स्म तस्य हतशक्तिपेलवे ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
तपसा कृशं वपुरुवाह स विजितजगत्त्रयोदयम् । त्रासजननमपि तत्त्वविदां किमिवास्ति यन्न सुकरं मनस्विभिः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
ज्वलतोऽनलादनुनिशीथमधिकरुचिरम्भसां निधेः । धैर्यगुणमवजयन्विजयी ददृशे समुन्नततरः स शैलतः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
जपतः सदा जपमुपांशु वदनमभितो विसारिभिः । तस्य दशनकिरणैः शुशुभे परिवेषभीषणमिवार्कमण्डलम् ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
कवचं स बिभ्रदुपवीतपदनिहितसज्यकार्मुकः । शैलपतिरिव महेन्द्रधनुःपरिवीतभीमगहनो विदिद्युते ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
प्रविवेश गामिव कृशस्य नियमसवनाय गच्छतः । तस्य पदविनमितो हिमवान्गुरुतां नयन्ति हि गुणा न संहतिः ॥