अथामर्षान्निसर्गाच्च जितेन्द्रियतया तया । आगजामाश्रमं जिष्णोः प्रतीतः पाकशासनः ॥
Metre: अनुष्टुप्
मुनिरूपोऽनुरूपेण सूनुना ददृशे पुरः । द्राघीयसा वयोतीतः परिक्लान्तः किलाध्वना ॥
Metre: अनुष्टुप्
जटानां कीर्णया केशैः संहत्या परितः सितैः । पृक्तयेन्दुकरैरह्नः पर्यन्त इव संध्यया ॥
Metre: अनुष्टुप्
विशदभ्रूयुगच्छन्नवलितापाङ्गलोचनः । प्रालेयावततिम्लानपलाशाब्ज इव ह्रदः ॥
Metre: अनुष्टुप्
आसक्तभरनीकाशैरङ्गैः परिकृशैरपि । अद्यूनः सद्गृहिण्येव प्रायो यष्ट्यावलम्बितः ॥
Metre: अनुष्टुप्
गूढोऽपि वपुषा राजन्धाम्ना लोकाभिभाविना । अंशुमानिव तन्वभ्रपटलच्छन्नविग्रहः ॥
Metre: अनुष्टुप्
जरतीमपि बिभ्राणस्तनुमप्राकृताकृतिः । चकाराक्रान्तलक्ष्मीकः ससाध्वसमिवाश्रयम् ॥
Metre: अनुष्टुप्
अभितस्तं पृथासूनुः स्नेहेन परितस्तरे । अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते मनः ॥
Metre: अनुष्टुप्
आतिथेयीमथासाद्य सुतादपचितिं हरिः । विश्रम्य विष्टरे नाम व्याजहारेति भारतीम् ॥
Metre: अनुष्टुप्
त्वया साधु समारम्भि नवे वयसि यत्तपः । ह्रियते विषयैः प्रायो वर्षीयानपि मादृशः ॥
Metre: अनुष्टुप्