श्रेयसीं तव सम्प्राप्ता गुणसम्पदमाकृतिः । सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ॥
Metre: अनुष्टुप्
शरदम्बुधरच्छाया गत्वर्यो यौवनश्रियः । आपातरम्या विषयाः पर्यन्तपरितापिनः ॥
Metre: अनुष्टुप्
अन्तकः पर्यवस्थाता जन्मिनः संततापदः । इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते मनः ॥
Metre: अनुष्टुप्
चित्तवानसि कल्याणी यत्त्वां मतिरुपस्थिता । विरुद्धः केवलं वेषः संदेहयति मे मनः ॥
Metre: अनुष्टुप्
युयुत्सुनेव कवचं किमामुक्तमिदं त्वया । तपस्विनो हि वसते केवलाजिनवल्कले ॥
Metre: अनुष्टुप्
प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे । महेषुधी धनुर्भीमं भूतानामनभिद्रुहः ॥
Metre: अनुष्टुप्
भयंकरः प्राणभृतां मृत्योर्भुज इवापरः । असिस्तव तपस्थस्य न समर्थयते शमम् ॥
Metre: अनुष्टुप्
जयमत्रभवान्नूनमरातिष्वभिलाषुकः । क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ॥
Metre: अनुष्टुप्
यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः । ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ॥
Metre: अनुष्टुप्
मूलं दोषस्य हिंसादेरर्थकामौ स्म मा पुषः । तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ ॥
Metre: अनुष्टुप्