अभिद्रोहेण भूतानामर्जयन्गत्वरीः श्रियः । उदन्वानिव सिन्धूनामापदामेति पात्रताम् ॥
Metre: अनुष्टुप्
या गम्याः सत्सहायानां यासु खेदो भयं यतः । तासां किं यन्न दुःखाय विपदामिव सम्पदाम् ॥
Metre: अनुष्टुप्
दुरासदानरीनुग्रान्धृतेर्विश्वासजन्मनः । भोगान्भोगानिवाहेयानध्यास्यापन्न दुर्लभा ॥
Metre: अनुष्टुप्
नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते । आसक्तास्तास्वमी मूढा वामशीला हि जन्तवः ॥
Metre: अनुष्टुप्
कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चलाः । साधुवृत्तानपि क्षुद्रा विक्षिपन्त्येव सम्पदः ॥
Metre: अनुष्टुप्
कृतवानन्यदेहेषु कर्ता च विधुरं मनः । अप्रियैरिव संयोगो विप्रयोगः प्रियैः सह ॥
Metre: अनुष्टुप्
शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः । विप्रलम्भोऽपि लाभाय सति प्रियसमागमे ॥
Metre: अनुष्टुप्
तदा रम्याण्यरम्याणि प्रियाः शल्यं तदासवः । तदैकाकी सबन्धुः सन्निष्टेन रहितो यदा ॥
Metre: अनुष्टुप्
युक्तः प्रमाद्यसि हितादपेतः परितप्यसे । यदि नेष्टात्मनः पीडा मा सञ्जि भवता जने ॥
Metre: अनुष्टुप्
जन्मिनोऽस्य स्थितिं विद्वांल्लक्ष्मीमिव चलाचलाम् । भवान्मा स्म वधीन्न्याय्यं न्यायाधारा हि साधवः ॥
Metre: अनुष्टुप्