प्रतिदिशमभिगच्छताभिमृष्टः ककुभविकाससुगन्धिनानिलेन । नव इव विबभौ सचित्तजन्मा गतधृतिराकुलितश्च जीवलोकः ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
व्यथितमपि भृशं मनो हरन्ती परिणतजम्बुफलोपभोगहृष्टा । परभृतयुवतिः स्वनं वितेने नवनवयोजितकण्ठरागरम्यम् ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे । जन इव न धृतेश्चचाल जिष्णुर्न हि महतां सुकरः समाधिभङ्गः ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
धृतबिसवलयावलिर्वहन्ती कुमुदवनैकदुकूलमात्तबाणा । शरदमलतले सरोजपाणौ घनसमयेन वधूरिवाललम्बे ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या । श्रियमतिशयिनीं समेत्य जग्मुर्गुणमहतां महते गुणाय योगः ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
सरजसमपहाय केतकीनां प्रसवमुपान्तिकनीपरेणुकीर्णम् । प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनीलबन्धनानि ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
मुकुलितमतिशय्य बन्धुजीवं धृतजलबिन्दुषु शाद्वलस्थलीषु । अविरलवपुषः सुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः । गुणमसमयजं चिराय लेभे विरलतुषारकण्।अस्तुषारकालः ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
निचयिनि लवलीलताविकासे जनयति लोध्रसमीरणे च हर्षम् । विकृतिमुपययौ न पाण्डुसूनुश्चलति नयान्न जिगीषतां हि चेतः ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
कतिपयसहकारपुष्परम्यस्तनुतुहिनोऽल्पविनिद्रसिन्दुवारः । सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ॥