कुसुमनगवनान्युपैतुकामा किसलयिनीमवलम्ब्य चूतयष्टिम् । क्वणदलिकुलनूपुरा निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
विकसितकुसुमाधरं हसन्तीं कुरबकराजिवधूं विलोकयन्तम् । ददृशुरिव सुराङ्गना निषण्णं सशरमनङ्गमशोकपल्लवेषु ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
मुहुरनुपतता विधूयमानं विरचितसंहति दक्षिणानिलेन । अलिकुलमलकाकृतिं प्रपेदे नलिनमुखान्तविसर्पि पङ्कजिन्याः ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
श्वसनचलितपल्लवाधरोष्ठे नवनिहितेर्ष्यमिवावधूनयन्ती । मधुसुरभिणि षट्पदेन पुष्पे मुख इव शाललतावधूश्चुचुम्बे ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
प्रभवति न तदा परो विजेतुं भवति जितेन्द्रियता यदात्मरक्षा । अवजितभुवनस्तथा हि लेभे सिततुरगे विजयं न पुष्पमासः ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
कथमिव तव संमतिर्भवित्री समम् ऋतुभिर्मुनिनावधीरितस्य । इति विरचितमल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
बलवदपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय । भुवनपरिभवी न यत्तदानीं तम् ऋतुगणः क्षणमुन्मनीचकार ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
श्रुतिसुखमुपवीणितं सहायैरविरललाञ्छनहारिणश्च कालाः । अविहितहरिसूनुविक्रियाणि त्रिदशवधूषु मनोभवं वितेनुः ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
न दलति निचये तथोत्पलानां न च विषमच्छदगुच्छयूथिकासु । अभिरतुमुपलेभिरे यथासां हरितनयावयवेषु लोचनानि ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
मुनिमभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन । मदनमुपदधे स एव तासां दुरधिगमा हि गतिः प्रयोजनानाम् ॥