किरातार्जुनीयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

किरातार्जुनीयम्

Enable Parallel


Showing 31 to 40 of 81 verses
Verse 31
विजहीहि रणोत्साहं मा तपः साधि नीनशः । उच्छेदं जन्मनः कर्तुमेधि शान्तस्तपोधन ॥
Metre: अनुष्टुप्

Verse 32
जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः । जितेषु ननु लोकोऽयं तेषु कृत्स्नस्त्वया जितः ॥
Metre: अनुष्टुप्

Verse 33
परवानर्थसंसिद्धौ नीचवृत्तिरपत्रपः । अविधेयेन्द्रियः पुंसां गौरिवैतेइ विधेयताम् ॥
Metre: अनुष्टुप्

Verse 34
श्वस्त्वया सुखसंवित्तिः स्मरणीयाधुनातनी । इति स्वप्नोपमान्मत्वा कामान्मा गास्तदङ्गताम् ॥
Metre: अनुष्टुप्

Verse 35
श्रद्धेया विप्रलब्धारः प्रिया विप्रियकारिणः । सुदुस्त्यजास्त्यजन्तोऽपि कामाः कष्टा हि शत्रवः ॥
Metre: अनुष्टुप्

Verse 36
विविक्तेऽस्मिन्नगे भूयः प्लाविते जह्नुकन्यया । प्रत्यासीदति मुक्तिस्त्वां पुरा मा भूरुदायुधः ॥
Metre: अनुष्टुप्

Verse 37
व्याहृत्य मरुतां पत्याविति वाचमवस्थिते । वचः प्रश्रयगम्भीरमथोवाच कपिध्वजः ॥
Metre: अनुष्टुप्

Verse 38
प्रसादरम्यमोजस्वि गरीयो लाघवान्वितम् । साकाङ्क्षमनुपस्कारं विष्वग्गति निराकुलम् ॥
Metre: अनुष्टुप्

Verse 39
न्यायनिर्णीतसारत्वान्निरपेक्षमिवागमे । अप्रकम्प्यतयान्येषामाम्नायवचनोपमम् ॥
Metre: अनुष्टुप्

Verse 40
अलङ्घ्यत्वाज्जनैरन्यैः क्षुभितोदन्वदूर्जितम् । औदार्यादर्थसम्पत्तेः शान्तं चित्तम् ऋषेरिव ॥
Metre: अनुष्टुप्