किमुपेक्षसे कथय नाथ न तव विदितं न किंचन । त्रातुमलमभयदार्हसि नस्त्वयि मा स्म शासति भवत्पराभवः ॥
Metre: उपजातिः
इति गां विधाय विरतेषु मुनिषु वचनं समाददे । भिन्नजलधिजलनादगुरु ध्वनयन्दिशां विवरमन्धकान्तकः ॥
Metre: उद्गीति (१२, १५, १२, १८)
बदरीतपोवननिवासनिरतमवगात मान्यथा । धातुरुदयनिधने जगतां नरमंशमादिपुरुषस्य गां गतम् ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
द्विषतः परासिसिषुरेष सकलभुवनाभितापिनः । क्रान्तकुलिशकरवीर्यबलान्मदुपासनं विहितवान्महत्तपः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
अयमच्युतश्च वचनेन सरसिरुहजन्मनः प्रजाः । पातुमसुरनिधनेन विभू भुवमभ्युपेत्य मनुजेषु तिष्ठतः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
सुरकृत्यमेतदवगम्य निपुणमिति मूकदानवः । हन्तुमभिपतति पाण्डुसुतं त्वरया तदत्र सह गम्यतां मया ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
विवरेऽपि नैनमनिगूढमभिभवितुमेष पारयन् । पापनिरतिरविशङ्कितया विजयं व्यवस्यति वराहमायया ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
निहते विडम्बितकिरातनृपतिवपुषा रिपौ मया । मुक्तनिशितविशिखः प्रसभं मृगयाविवादमयमाचरिष्यति ॥
Metre: उद्गीति (१२, १५, १२, १८)
तपसा निपीडितकृशस्य विरहितसहायसम्पदः । सत्त्वविहितमतुलं भुजयोर्बलमस्य पश्यत मृधेऽधिकुप्यतः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
इति तानुदारमनुनीय विषमहरिचन्दनालिना । घर्मजनितपुलकेन लसद्गजमौक्तिकावलिगुणेन वक्षसा ॥
Metre: उद्गीति (१२, १५, १२, १८)