इदमीदृग्गुणोपेतं लब्धावसरसाधनम् । व्याकुर्यात्कः प्रियं वाक्यं यो वक्ता नेदृगाशयः ॥
Metre: अनुष्टुप्
न ज्ञातं तात यत्नस्य पौर्वापर्यममुष्य ते । शासितुं येन मां धर्मं मुनिभिस्तुल्यमिच्छसि ॥
Metre: अनुष्टुप्
अविज्ञातप्रबन्धस्य वचो वाचस्पतेरिव । व्रजत्यफलतामेव नयद्रुह इवेहितम् ॥
Metre: अनुष्टुप्
श्रेयसोऽप्यस्य ते तात वचसो नास्मि भाजनम् । नभसः स्फुटतारस्य रात्रेरिव विपर्ययः ॥
Metre: अनुष्टुप्
क्षत्रियस्तनयः पाण्डोरहं पार्थो धनंजयः । स्थितः प्रास्तस्य दायादैर्भ्रातुर्ज्येष्ठस्य शासने ॥
Metre: अनुष्टुप्
कृष्णद्वैपायनादेशाद्बिभर्मि व्रतमीदृशम् । भृशमाराधने यत्तः स्वाराध्यस्य मरुत्वतः ॥
Metre: अनुष्टुप्
दुरक्षान्दीव्यता राज्ञा राज्यमात्मा वयं वधूः । नीतानि पणतां नूनमीदृशी भवितव्यता ॥
Metre: अनुष्टुप्
तेनानुजसहायेन द्रौपद्या च मया विना । भृशमायामियामासु यामिनीष्वभितप्यते ॥
Metre: अनुष्टुप्
हृतोत्तरीयां प्रसभं सभायामागतह्रियः । मर्मच्छिदा नो वचसा निरतक्षन्नरातयः ॥
Metre: अनुष्टुप्
उपाधत्त सपत्नेषु कृष्णाया गुरुसंनिधौ । भावमानयने सत्याः सत्यंकारमिवान्तकः ॥
Metre: अनुष्टुप्