किरातार्जुनीयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

किरातार्जुनीयम्

Enable Parallel


Showing 61 to 70 of 81 verses
Verse 61
तावदाश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः । पुरुषस्तावदेवासौ यावन्मानान्न हीयते ॥
Metre: अनुष्टुप्

Verse 62
स पुमानर्थवज्जन्मा यस्य नाम्नि पुरःस्थिते । नान्यामङ्गुलिमभ्येति संख्यायामुद्यताङ्गुलिः ॥
Metre: अनुष्टुप्

Verse 63
दुरासदवनज्यायान्गम्यस्तुङ्गोऽपि भूधरः । न जहाति महौजस्कं मानप्रांशुमलङ्घ्यता ॥
Metre: अनुष्टुप्

Verse 64
गुरून्कुर्वन्ति ते वंश्यानन्वर्था तैर्वसुंधरा । येषां यशांसि शुभ्राणि ह्रेपयन्तीन्दुमण्डलम् ॥
Metre: अनुष्टुप्

Verse 65
उदाहरणमाशीःषु प्रथमे ते मनस्विनाम् । शुष्केऽशनिरिवामर्षो यैररातिषु पात्यते ॥
Metre: अनुष्टुप्

Verse 66
न सुखं प्रार्थये नार्थमुदन्वद्वीचिचञ्चलम् । नानित्यताशनेस्त्रस्यन्विविक्तं ब्रह्मणः पदम् ॥
Metre: अनुष्टुप्

Verse 67
प्रमार्ष्टुमयशःपङ्कमिच्छेयं छद्मना कृतम् । वैधव्यतापितारातिवनितालोचनाम्बुभिः ॥
Metre: अनुष्टुप्

Verse 68
अपहस्येऽथवा सद्भिः प्रमादो वास्तु मे धियः । अस्थानविहितायासः कामं जिह्रेतु वा भवान् ॥
Metre: अनुष्टुप्

Verse 69
वंशलक्ष्मीमनुद्धृत्य समुच्छेदेन विद्विषाम् । निर्वाणमपि मन्येऽहमन्तरायं जयश्रियः ॥
Metre: अनुष्टुप्

Verse 70
अजन्मा पुरुषस्तावद्गतासुस्तृणमेव वा । यावन्नेषुभिरादत्ते विलुप्तमरिभिर्यशः ॥
Metre: अनुष्टुप्