अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति । पुरुषोक्तिः कथं तस्मिन्ब्रूहि त्वं हि तपोधन ॥
Metre: अनुष्टुप्
कृतं पुरुषशब्देन जातिमात्रावलम्बिना । योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयमुदाहृतः ॥
Metre: अनुष्टुप्
ग्रसमानमिवौजांसि सदसा गौरवेरितम् । नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान् ॥
Metre: अनुष्टुप्
यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया । ममैवाध्येति नृपतिस्तृष्यन्निव जलाञ्जलेः ॥
Metre: अनुष्टुप्
स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् । कृच्छ्रेषु व्यर्थया यत्र भूयते भर्तुराज्ञया ॥
Metre: अनुष्टुप्
कथं वादीयतामर्वाङ्मुनिता धर्मरोधिनी । आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः ॥
Metre: अनुष्टुप्
आसक्ता धूरियं रूढा जननी दूरगा च मे । तिरस्करोति स्वातन्त्र्यं ज्यायांश्चाचारवान्नृपः ॥
Metre: अनुष्टुप्
स्वधर्ममनुरुन्धन्ते नातिक्रममरातिभिः । पलायन्ते कृतध्वंसा नाहवान्मानशालिनः ॥
Metre: अनुष्टुप्
विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि । आराध्य वा सहस्राक्षमयशःशल्यमुद्धरे ॥
Metre: अनुष्टुप्
इत्युक्तवन्तं परिरभ्य दोर्भ्यां तनूजमाविष्कृतदिव्यमूर्तिः । अघोपघातं मघवा विभूत्यै भवोद्भवाराधनमादिदेश ॥
Metre: उपजातिः