भृशकुसुमशरेषुपातमोहादनवसितार्थपदाकुलोऽभिलापः । अधिकविततलोचनं वधूनामयुगपदुन्नमितभ्रु वीक्षितं च ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
रुचिकरमपि नार्थवद्बभूव स्तिमितसमाधिशुचौ पृथातनूजे । ज्वलयति महतां मनांस्यमर्षे न हि लभतेऽवसरं सुखाभिलाषः ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
स्वयं संराध्यैवं शतमखमखण्डेन तपसा परोच्छित्त्या लभ्यामभिलषति लक्ष्मीं हरिसुते । मनोभिः सोद्वेगैः प्रणयविहतैध्वस्तरुचयः सगन्धर्मा धाम त्रिदशवनिताः स्वं प्रतिययुः ॥
Metre: शिखरिणी