चित्तनिर्वृतिविधायि विविक्तं मन्मथो मधुमदः शशिभासः । संगमश्च दयितैः स्म नयन्ति प्रेम कामपि भुवं प्रमदानाम् ॥
Metre: स्वागता
धार्ष्ट्यलङ्घितयथोचितभूमौ निर्दयं विलुलितालकमाल्ये । मानिनीरतिविधौ कुसुमेषुर्मत्तमत्त इव विभ्रममाप ॥
Metre: स्वागता
शीधुपानविधुरेषु वधूनां विघ्नतामुपगतेषु वपुःषु । ईहितं रतिरसाहितभावं वीतलक्ष्यमपि कामिषु रेजे ॥
Metre: स्वागता
अन्योन्यरक्तमनसामथ बिभ्रतीनां चेतोभुवो हरिसखाप्सरसां निदेशम् । वैबोधिकध्वनिविभावितपश्चिमार्धा सा संहृतेव परिवृत्तिमियाय रात्रिः ॥
Metre: वसन्ततिलका
निद्राविनोदितनितान्तरतिक्लमानामायामिमङ्गलनिनादविबोधितानाम् । रामासु भाविविरहाकुलितासु यूनां तत्पूर्वतामिव समादधिरे रतानि ॥
Metre: वसन्ततिलका
कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयानिव मन्दमन्दम् । हर्म्येषु माल्यमदिरापरिभोगगन्धानाविश्चकार रजनीपरिवृत्तिवायुः ॥
Metre: वसन्ततिलका
आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु । व्यामृष्टपत्त्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु मदावशेषः ॥
Metre: वसन्ततिलका
गतवति नखलेखालक्ष्यतामङ्गरागे समददयितपीताताम्रबिम्बाधराणाम् । विरहविधुरमिष्टा सत्सखीवङ्गनानां हृदयमवललम्बे रात्रिसम्भोगलक्ष्मीः ॥
Metre: मालिनी