तुल्यरूपमसितोत्पलमक्ष्णोः कर्णगं निरुपकारि विदित्वा । योषितः सुहृदिव प्रविभेजे लम्भितेक्षणरुचिर्मदरागः ॥
Metre: स्वागता
क्षीणयावकरसोऽप्यतिपानैः कान्तदन्तपदसम्भृतशोभः । आययावतितरामिव वध्वाः सान्द्रतामधरपल्लवरागः ॥
Metre: स्वागता
रागजान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु । सर्वगापि ददृशे वनितानां दर्पणेष्विव मुखेषु मदश्रीः ॥
Metre: स्वागता
बद्धकोपविकृतीरपि रामाश्चारुताभिमततामुपनिन्ये । वश्यतां मधुमदो दयितानामात्मवर्गहितमिच्छति सर्वः ॥
Metre: स्वागता
वाससां शिथिलतामुपनाभि ह्रीनिरासमपदे कुपितानि । योषितां विदधती गुणपक्षे निर्ममार्ज मदिरा वचनीयम् ॥
Metre: स्वागता
भर्तृषूपसखि निक्षिपतीनामात्मनो मधुमदोद्यमितानाम् । व्रीडया विफलया वनितानां न स्थितं न विगतं हृदयेषु ॥
Metre: स्वागता
रुन्धती नयनवाक्यविकासं सादितो भयकरा परिरम्भे । व्रीडितस्य ललितं युवतीनां क्षीबता बहुगुणैरनुजह्रे ॥
Metre: स्वागता
योषिदुद्धतमनोभवरागा मानवत्यपि ययौ दयिताङ्कम् । कारयत्यनिभृता गुणदोषे वारुणी खलु रहस्यविभेदम् ॥
Metre: स्वागता
आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासम् । आबभौ नव इवोद्धतरागः कामिनीष्ववसरः कुसुमेषोः ॥
Metre: स्वागता
मा गमन्मदविमूढधियो नः प्रोज्झ्य रन्तुमिति शङ्कितनाथाः । योषितो न मदिरां भृशमीषुः प्रेम पश्यति भयान्यपदेऽपि ॥
Metre: स्वागता