किरातार्जुनीयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

किरातार्जुनीयम्

Enable Parallel


Showing 1 to 10 of 78 verses
Verse 1
वीक्ष्य रन्तुमनसः सुरनारीरात्तचित्रपरिधानविभूषाः । तत्प्रियार्थमिव यातुमथास्तं भानुमानुपपयोधि ललम्बे ॥
Metre: स्वागता

Verse 2
मध्यमोपलनिभे लसदंशावेकतश्च्युतिमुपेयुषि भानौ । द्यौरुवाह परिवृत्तिविलोलां हारयष्टिमिव वासरलक्ष्मीम् ॥
Metre: स्वागता

Verse 3
अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा । क्षीबतामिव गतः क्षितिमेष्यंल्लोहितं वपुरुवाह पतङ्गः ॥
Metre: स्वागता

Verse 4
गम्यतामुपगते नयनानां लोहितायाति सहस्रमरीचौ । आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्यभितापः ॥
Metre: उपजातिः

Verse 5
मुक्तमूललघुरुज्झितपूर्वः पश्चिमे नभसि सम्भृतसान्द्रः । सामि मज्जति रवौ न विरेजे खिन्नजिह्म इव रश्मिसमूहः ॥
Metre: स्वागता

Verse 6
कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डलमभि त्वरयन्त्यः । सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः ॥
Metre: स्वागता

Verse 7
अग्रसानुषु नितान्तपिशङ्गैर्भूरुहान्मृदुकरैरवलम्ब्य । अस्तशैलगहनं नु विवस्वानाविवेश जलधिं नु महीं नु ॥
Metre: स्वागता

Verse 8
आकुलश्चलपतत्रिकुलानामारवैरनुदितौषसरागः । आययावहरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः ॥
Metre: स्वागता

Verse 9
आस्थितः स्थगितवारिदपङ्क्त्या संध्यया गगनपश्चिमभागः । सोर्मिविद्रुमविन्तानविभासा रञ्जितस्य जलधेः श्रियमूहे ॥
Metre: उपजातिः

Verse 10
प्राञ्जलावपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा । संध्ययानुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥
Metre: स्वागता

Showing 1 to 10 of 78 verses