किरातार्जुनीयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

किरातार्जुनीयम्

Enable Parallel


Showing 1 to 10 of 57 verses
Verse 1
अथ स्वमायाकृतमन्दिरोज्ज्वलं ज्वलन्मणि व्योमसदां सनातनम् । सुराङ्गना गोपतिचापगोपुरं पुरं वनानां विजिहीर्षया जहुः ॥
Metre: वंशस्थम्

Verse 2
यथायथं ताः सहिता नभश्चरैः प्रभाभिरुद्भासितशैलवीरुधः । वनं विशन्त्यो वनजायतेक्षणाः क्षणद्युतीनां दधुरेकरूपताम् ॥
Metre: वंशस्थम्

Verse 3
निवृत्तवृत्तोरुपयोधरक्लमः प्रवृत्तैनिर्ह्रादिविभूषणारवः । नितम्बिनीनां भृशमादधे धृतिं नभःप्रयाणादवनौ परिक्रमः ॥
Metre: वंशस्थम्

Verse 4
घनानि कामं कुसुमानि बिभ्रतः करप्रचेयान्यपहाय शाखिनः । पुरोऽभिसस्रे सुरसुन्दरीजनैर्यथोत्तरेच्छा हि गुणेषु कामिनः ॥
Metre: वंशस्थम्

Verse 5
तनूरलक्तारुणपाणिपल्लवाः स्फुरन्नखांशूत्करमञ्जरीभृतः । विलासिनीबाहुलता वनालयो विलेपनामोदहृताः सिषेविरे ॥
Metre: वंशस्थम्

Verse 6
निपीयमानस्तबका शिलीमुखैरशोकयष्टिश्चलबालपल्लवा । विडम्बयन्ती ददृशे वधूजनैरमन्ददष्टौष्ठकरावधूननम् ॥
Metre: वंशस्थम्

Verse 7
करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम् । उपेयुषी कल्पलताभिशङ्कया कथं न्वितस्त्रस्यति षट्पदावलिः ॥
Metre: वंशस्थम्

Verse 8
जहीहि कोपं दयितोऽनुगम्यतां पुरानुशेते तव चञ्चलं मनः । इति प्रियं कांचिदुपैतुमिच्छतीं पुरोऽनुनिन्ये निपुणः सखीजनः ॥
Metre: वंशस्थम्

Verse 9
समुन्नतैः काशदुकूलशालिभिः परिक्वणत्सारसपङ्क्तिमेखलैः । प्रतीरदेशैः स्वकलत्रचारुभिर्विभूषिताः कुञ्जसमुद्रयोषितः ॥
Metre: वंशस्थम्

Verse 10
विदूरपातेन भिदामुपेयुषश्च्युताः प्रवाहादभितः प्रसारिणः । प्रियाङ्कशीताः शुचिमौक्तिकत्विषो वनप्रहासा इव वारिबिन्दवः ॥
Metre: वंशस्थम्

Showing 1 to 10 of 57 verses