श्रीमद्भिः सरथगजैः सुराङ्गनानां गुप्तानामथ सचिवैस्त्रिलोकभर्तुः । संमूर्छन्नलघुविमानरन्ध्रभिन्नः प्रस्थानं समभिदधे मृदङ्गनादः ॥
Metre: प्रहर्षिणी
सोत्कण्ठैरमरगणैरनुप्रकीर्णान्निर्याय ज्वलितरुचः पुरान्मघोनः । रामाणामुपरि विवस्वतः स्थितानां नासेदे चरितगुणत्वमातपत्रैः ॥
Metre: प्रहर्षिणी
धूतानामभिमुखपातिभिः समीरैरायासादविशदलोचनोत्पलानाम् । आनिन्ये मदजनितां श्रियं वधूनामुष्णांशुद्युतिजनितः कपोलरागः ॥
Metre: प्रहर्षिणी
तिष्ठद्भिः कथमपि देवतानुभावादाकृष्टैः प्रजविभिरायतं तुरङ्गैः । नेमीनामसति विवर्तनई रथौघैरासेदे वियति विमानवत्प्रवृत्तिः ॥
Metre: प्रहर्षिणी
कान्तानां कृतपुलकः स्तनाङ्गरागे वक्त्रेषु च्युततिलकेषु मौक्तिकाभस् । सम्पेदे श्रमसलिलोद्गमो विभूषा रम्याणां विकृतिरपि श्रियं तनोति ॥
Metre: प्रहर्षिणी
राजद्भिः पथि मरुतामभिन्नरूपैरुल्कार्चिः स्फुटगतिभिर्ध्वजाङ्कुशानाम् । तेजोभिः कनकनिकाषराजिगौरैरायामः क्रियत इव स्म सातिरेकः ॥
Metre: प्रहर्षिणी
रामाणामवजितमाल्यसौकुमार्ये सम्प्राप्ते वपुषि सहत्वमातपस्य । गन्धर्वैरधिगतविस्मयैः प्रतीये कल्याणी विधिषु विचित्रता विधातुः ॥
Metre: प्रहर्षिणी
सिन्दूरैः कृतरुचयः सहेमकक्ष्याः स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः । सादृश्यं ययुररुणांशुरागभिन्नैर्वर्षद्भिः स्फुरितशतह्रदैः पयोदैः ॥
Metre: प्रहर्षिणी
अत्यर्थं दुरुपसदादुपेत्य दूरं पर्यन्तादहिममयूखमण्डलस्य । आशानामुपरचितामिवैकवेणीं रम्योर्मीं त्रिदशनदीं ययुर्बलानि ॥
Metre: प्रहर्षिणी
आमत्तभ्रमरकुलाकुलानि धुन्वन्नुद्भूतग्रथितरजांसि पङ्कजानि । कान्तानां गगननदीतरङ्गशीतः संतापं विरमयति स्म मातरिश्वा ॥
Metre: प्रहर्षिणी