किरातार्जुनीयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

किरातार्जुनीयम्

Enable Parallel


Showing 21 to 30 of 40 verses
Verse 21
उत्सङ्गे समविषमे समं महाद्रेः क्रान्तानां वियदभिपातलाघवेन । आ मूलादुपनदि सैकतेषु लेभे सामग्री खुरपदवी तुरङ्गमाणाम् ॥
Metre: प्रहर्षिणी

Verse 22
सध्वानं निपतितनिर्झरासु मन्द्रैः संमूर्छन्प्रतिनिनदैरधित्यकासु । उद्ग्रीवैर्घनरवशङ्कया मयूरैः सोत्कण्ठं ध्वनिरुपशुश्रुवे रथानाम् ॥
Metre: प्रहर्षिणी

Verse 23
सम्भिन्नामविरलपातिभिर्मयूखैर्नीलानां भृशमुपमेखलं मणीनाम् । विच्छिनामिव वनिता नभोन्तराले वप्राम्भःस्रुतिमवलोकयांबभूवुः ॥
Metre: प्रहर्षिणी

Verse 24
आसन्नद्विपपदवीमदानिलाय क्रुध्यन्तो धियमवमत्य धूर्गतानाम् । सव्याजं निजकरिणीभिरात्तचित्ताः प्रस्थानं सुरकरिणः कथंचिदीषुः ॥
Metre: प्रहर्षिणी

Verse 25
नीरन्ध्रं पथिषु रजो रथाङ्गनुन्नं पर्यस्यन्नवसलिलारुणं वहन्ती । आतेने वनगहनानि वाहिनी सा घर्मान्तक्षुभितजलेव जह्नुकन्या ॥
Metre: प्रहर्षिणी

Verse 26
सम्भोगक्षमगहनामथोपगङ्गं बिभ्राणां ज्वलितमणीनि सैकतानि । अध्यूषुश्च्युतकुसुमाचितां सहाया वृत्रारेरविरलशाद्वलां धरित्रीम् ॥
Metre: प्रहर्षिणी

Verse 27
भूभर्तुः समधिकमादधे तदोर्व्याः श्रीमत्तां हरिसखवाहिनीनिवेशः । संसक्तौ किमसुलभं महोदयानामुच्छ्रायं नयति यदृच्छयापि योगः ॥
Metre: प्रहर्षिणी

Verse 28
सामोदाः कुसुमतरुश्रियो विविक्ताः सम्पत्तिः किसलयशालिनीलतानाम् । साफल्यं ययुरमराङ्गनोपभुक्ताः सा लक्ष्मीरुपकुरुते यया परेषाम् ॥
Metre: प्रहर्षिणी

Verse 29
क्लान्तोऽपि त्रिदशवधूजनः पुरस्ताल्लीनाहिश्वसितविलोलपल्लवानाम् । सेव्यानां हतविनयैरिवावृतानां सम्पर्कं परिहरति स्म चन्दनानाम् ॥
Metre: प्रहर्षिणी

Verse 30
उत्सृष्टध्वजकुथकङ्कटा धरित्रीमानीता विदितनयैः श्रमं विनेतुम् । आक्षिप्तद्रुमगहना युगान्तवातैः पर्यस्ता गिरय इव द्विपा विरेजुः ॥
Metre: प्रहर्षिणी