किरातार्जुनीयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

किरातार्जुनीयम्

Enable Parallel


Showing 31 to 40 of 40 verses
Verse 31
प्रस्थानश्रमजनितां विहाय निद्रामामुक्ते गजपतिना सदानपङ्के । शय्यान्ते कुलमलिनां क्षणं विलीनं संरम्भच्युतमिव शृङ्खलं चकाशे ॥
Metre: प्रहर्षिणी

Verse 32
आयस्तः सुरसरिदोघरुद्धवर्त्मा सम्प्राप्तुं वनगजदानगन्धि रोधः । मूर्धानं निहितशिताङ्कुशं विधुन्वन्यन्तारं न विगणयांचकार नागः ॥
Metre: प्रहर्षिणी

Verse 33
आरोढुः समवनतस्य पीतशेषे साशङ्कं पयसि समीरिते करेण । संमार्जन्नरुणमदस्रुती कपोलौ सस्यन्दे मद इव शीकरः करेणोः ॥
Metre: प्रहर्षिणी

Verse 34
आघ्राय क्षणमतितृष्यतापि रोषादुत्तीरं निहितविवृत्तलोचनेन । सम्पृक्तं वनकरिनां मदाम्बुसेकैर्नाचेमे हिममपि वारि वारणेन ॥
Metre: प्रहर्षिणी

Verse 35
प्रश्च्योतन्मदसुरभीणि निम्नगायाः क्रीडन्तो गजपतयः पयांसि कृत्वा । किञ्जल्कव्यवहितताम्रदानलेखैरुत्तेरुः सरसिजगन्धिभिः कपोलैः ॥
Metre: प्रहर्षिणी

Verse 36
आकीर्णं बलरजसा घनारुणेन प्रक्षोभैः सपदि तरङ्गितं तटेषु । मातङ्गोन्मथितसरोजरेणुपिङ्गं माञ्जिष्ठं वसनमिवाम्बु निर्बभासे ॥
Metre: प्रहर्षिणी

Verse 37
श्रीमद्भिर्नियमितकन्धरापरान्तैः संसक्तैरगुरुवनेषु साङ्गहारम् । सम्प्रापे निसृतमदाम्बुभिर्गजेन्द्रैः प्रस्यन्दिप्रचलितगण्डशैलशोभा ॥
Metre: प्रहर्षिणी

Verse 38
निःशेषं प्रशमितरेणु वारणानां स्रोतोभिर्मदजलमुज्झतामजस्रम् । आमोदं व्यवहितभूरिपुष्पगन्धो भिन्नैलासुरभिमुवाह गन्धवाहः ॥
Metre: प्रहर्षिणी

Verse 39
सादृश्यं दधति गभीरमेघघोषैरुन्निद्रक्षुभितमृगाधिपश्रुतानि । आतेनुश्चकितचकोरनीलकण्ठान्कच्छान्तानमरमहेभबृंहितानि ॥
Metre: प्रहर्षिणी

Verse 40
सास्रावसक्तकमनियपरिच्छदानामध्वश्रमातुरवधूजनसेवितानाम् । जज्ञे निवेशनविभागपरिष्कृतानां लक्ष्मीः पुरोपवनजा वनपादपानाम् ॥
Metre: वसन्ततिलका

Showing 31 to 40 of 40 verses