सम्भिन्नैरिभतुरगावगाहनेन प्राप्योर्वीरनुपदवीं विमानपङ्क्तीः । तत्पूर्वं प्रतिविदधे सुरापगाया वप्रान्तस्खलितविवर्तनं पयोभिः ॥
Metre: प्रहर्षिणी
क्रान्तानां ग्रहचरितात्पथो रथानामक्षाग्रक्षतसुरवेश्मवेदिकानाम् । निःसङ्गं प्रधिभिरुपाददे विवृत्तिः सम्पीडक्षुभितजलेषु तोयदेषु ॥
Metre: प्रहर्षिणी
तप्तानामुपदधिरे विषाणभिन्नाः प्रह्लादं सुरकरिणां घनाः क्षरन्तः । युक्तानां खलु महतां परोपकारे कल्याणी भवति रुजत्स्वपि प्रवृत्तिः ॥
Metre: प्रहर्षिणी
संवाता मुहुरनिलेन नीयमाने दिव्यस्त्रीजघनवरांशुके विवृत्तिम् । पर्यस्यत्पृथुमणिमेखलांशुजालं संजज्ञे युतकमिवान्तरीयमूर्वोः ॥
Metre: प्रहर्षिणी
प्रत्यार्द्रीकृततिलकास्तुषारपातैः प्रह्लादं शमितपरिश्रमा दिशन्तः । कान्तानां बहुमतिमाययुः पयोदा नाल्पीयान्बहु सुकृतं हिनस्ति दोषः ॥
Metre: प्रहर्षिणी
यातस्य ग्रथिततरङ्गसैकताभे विच्छेदं विपयसि वारिवाहजाले । आतेनुस्त्रिदशवधूजनाङ्गभाजां संधानं सुरधनुषः प्रभा मणीनाम् ॥
Metre: प्रहर्षिणी
संसिद्धाविति करणीयसंनिबद्धैरालापैः पिपतिषतां विलङ्घ्य वीथीम् । आसेदे दशशतलोचनध्वजिन्या जीमूतैरपिहितसानुरिन्द्रकीलः ॥
Metre: प्रहर्षिणी
आकीर्णा मुखनलिनैर्विलासिनीनामुद्भूतस्फुटविशदातपत्रफेना । सा तूर्यध्वनितगभीरमापतन्ती भूभर्तुः शिरसि नभोनदीव रेजे ॥
Metre: प्रहर्षिणी
सेतुत्वं दधति पयोमुचां विताने संरम्भादभिपततो रथाञ्जवेन । आनिन्युर्नियमितरश्मिभुग्नघोणाः कृच्छ्रेण क्षितिमवनामितस्तुरङ्गाः ॥
Metre: प्रहर्षिणी
माहेन्द्रं नगमभितः करेणुवर्याः पर्यन्तस्थितजलदा दिवः पतन्तः । सादृश्यं निलयननिष्प्रकम्पपक्षैराजग्मुर्जलनिधिशायिभिर्नगेन्द्रैः ॥
Metre: प्रहर्षिणी