सखीजनं प्रेम गुरूकृतादरं निरीक्षमाणा इव नम्रमूर्तयः । स्थिरद्विरेफाञ्जनशरितोदरैर्विसारिभिः पुष्पविलोचनैर्लताः ॥
Metre: वंशस्थम्
उपेयुषीणां बृहतीरधित्यका मनांसि जह्रुः सुरराजयोषिताम् । कपोलकाषैः करिणां मदारुणैरुपाहितश्यामरुचश्च चन्दनाः ॥
Metre: वंशस्थम्
स्वगोचरे सत्यपि वित्तहारिणा विलोभ्यमानाः प्रसवेन शाखिनाम् । नभश्चराणामुपकर्तुमिच्छतां प्रियाणि चक्रुः प्रणयेन योषितः ॥
Metre: वंशस्थम्
प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता । न किंचिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् ॥
Metre: वंशस्थम्
प्रियेऽपरा यच्छति वाचमुन्मुखी निबद्धदृष्टिः शिथिलाकुलोच्चया । समादधे नांशुकमाहितं वृथा विवेद पुष्पेषु न पाणिपल्लवम् ॥
Metre: वंशस्थम्
सलीलमासक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकम् । स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्चिज्जघनेन कान्तया ॥
Metre: वंशस्थम्
कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा । बलिव्यपायस्फुटरोमराजिना निरायतत्वादुदरेण ताम्यता ॥
Metre: वंशस्थम्
विलम्बमानाकुलकेशपाशया कयाचिदाविष्कृतबाहुमूलया । तरुप्रसूनान्यपदिश्य सादरं मनोधिनाथस्य मनः समाददे ॥
Metre: वंशस्थम्
व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः । पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी ॥
Metre: वंशस्थम्
इमान्यमूनीत्यपवर्जिते शनैर्यथाभिरामं कुसुमाग्रपल्लवे । विहाय निःसारतयेव भूरुहान्पदं वनश्रीर्वनितासु संदधे ॥
Metre: वंशस्थम्