किरातार्जुनीयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

किरातार्जुनीयम्

Enable Parallel


Showing 21 to 30 of 57 verses
Verse 21
प्रवालभङ्गारुणपाणिपल्लवः परागपाण्डूकृतपीवरस्तनः । महीरुहः पुष्पसुगन्धिराददे वपुर्गुणोच्छ्रायमिवाङ्गनाजनः ॥
Metre: वंशस्थम्

Verse 22
वरोरुभिर्वारणहस्तपीवरैश्चिराय खिन्नान्नवपल्लवश्रियः । समेऽपि यातुं चरणाननीश्वरान्मदादिव प्रस्खलतः पदे पदे ॥
Metre: वंशस्थम्

Verse 23
विसारिकाञ्चीमणिरश्मिलब्धया मनोहरोच्छायनितम्बशोभया । स्थितानि जित्वा नवसैकतद्युतिं श्रमातिरिक्तैर्जघनानि गौरवैः ॥
Metre: वंशस्थम्

Verse 24
समुच्छ्वसत्पङ्कजकोशकोमलैरुपाहितश्रीण्युपनीवि नाभिभिः । दधन्ति मध्येषु वलीविभङ्गिषु स्तनातिभारादुदराणि नम्रताम् ॥
Metre: वंशस्थम्

Verse 25
समानकान्तीनि तुषारभूषणैः सरोरुहैरस्फुटपत्त्रपङ्क्तिभिः । चितानि घर्माम्बुकणैः समन्ततो मुखान्यनुत्फुल्लविलोचनानि च ॥
Metre: वंशस्थम्

Verse 26
विनिर्यतीनां गुरुस्वेदमन्थरं सुराङ्गनानामनुसानुवर्त्मनः । सविस्मयं रूपयतो नभश्चरान्विवेश तत्पूर्वमिवेक्षणादरः ॥
Metre: वंशस्थम्

Verse 27
अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिः । पयोऽवगाढुं कलहंसनादिनी समाजुहावेव वधूः सुरापगा ॥
Metre: वंशस्थम्

Verse 28
प्रशान्तघर्माभिभवः शनैर्विवान्विलासिनीभ्यः परिमृष्टपङ्कजः । ददौ भुजालम्बमिवात्तशीकरस्तरङ्गमालान्तरगोचरोऽनिलः ॥
Metre: वंशस्थम्

Verse 29
गतैः सहावैः कलहंसविक्रमं कलत्रभारैः पुलिनं नितम्बिभिः । मुखैः सरोजानि च दीर्घलोचनैः सुरस्त्रियः साम्यगुणान्निरासिरे ॥
Metre: वंशस्थम्

Verse 30
विभिन्नपर्यन्तगमीनपङ्क्तयः पुरो विगाढाः सखिभिर्मरुत्वतः । कथंचिदापः सुरसुन्दरीजनैः सभीतिभिस्तत्प्रथमं प्रपेदिरे ॥
Metre: वंशस्थम्