तथा न पूर्वं कृतभूषणादरः प्रियानुरागेण विलासिनीजनः । यथा जलार्द्रो नखमण्डनश्रिया ददाह दृष्टीश्च विपक्षयोषिताम् ॥
Metre: वंशस्थम्
शुभाननाः साम्बुरुहेषु भीरवो विलोलहाराश्चलफेनपङ्क्तिषु । नितान्तगौर्यो हृतकुङ्कुमेष्वलं न लेभिरे ताः परभागमूर्मिषु ॥
Metre: वंशस्थम्
ह्रदाम्भसि व्यस्तवधूकराहते रवं मृदङ्गध्वनिधीरमुज्झति । मुहुस्तनैस्तालस्समं समाददे मनोरमं नृत्यमिव प्रवेपितम् ॥
Metre: वंशस्थम्
श्रिया हसद्भिः कलमानि सस्मितैरलंकृताम्बुः प्रतिमागतैर्मुखैः । कृतानुकूल्या सुरराजयोषितां प्रसादसाफल्यमवाप जाह्वनी ॥
Metre: वंशस्थम्
परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥
Metre: वंशस्थम्
भयादिवाश्लिष्य झषाहतेऽम्भसि प्रियं मुदानन्दयति स्म मानिनी । अकृत्रिमप्रेमरसाहितैर्मनो हरन्ति रामाः कृतकैरपीहितैः ॥
Metre: वंशस्थम्
तिरोहितान्तानि नितान्तमाकुलैरपां विगाहादलकैः प्रसारिभिः । ययुर्वधूनां वदनानि तुल्यतां द्विरेफवृन्दान्तरितैः सरोरुहैः ॥
Metre: वंशस्थम्
करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसम्भ्रमा । सखीषु निर्वाच्यमधार्ष्ठ्यदूषितं प्रियाङ्गसंश्लेषमवाप मानिनी ॥
Metre: वंशस्थम्
प्रियैः सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः । सविभ्रमाधूतकराग्रपल्लवो यथार्थतामाप विलासिनीजनः ॥
Metre: वंशस्थम्
उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितम् । मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्नीवदनादिवाददे ॥
Metre: वंशस्थम्