किरातार्जुनीयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

किरातार्जुनीयम्

Enable Parallel


Showing 11 to 20 of 78 verses
Verse 11
औषसातपभयादपलीनं वासरच्छविविरामपटीयः । संनिपत्य शनकैरिव निम्नादन्धकारमुदवाप समानि ॥
Metre: स्वागता

Verse 12
एकतामिव गतस्य विवेकः कस्यचिन्न महतोऽप्युपलेभे । भास्वता निदधिरे भुवनानामात्मनीव पतितेन विशेषाः ॥
Metre: स्वागता

Verse 13
इच्छतां सह वधूभिरभेदं यामिनीविरहिणां विहगानाम् । आपुरेव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः ॥
Metre: स्वागता

Verse 14
यच्छति प्रतिमुखं दयितायै वाचमन्तिकगतेऽपि शकुन्तौ । नीयते स्म नतिमुज्झितहर्षं पङ्कजं मुखमिवाम्बुरुहिण्या ॥
Metre: स्वागता

Verse 15
रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥
Metre: स्वागता

Verse 16
रात्रिरागमलिनानि विकासं पङ्कजानि रहयन्ति विहाय । स्पष्टतारकमियाय नभः श्रीर्वस्तुमिच्छति निरापदि सर्वः ॥
Metre: स्वागता

Verse 17
व्यानशे शशधरेण विमुक्तः केतकीकुसुमकेसरपाण्डुः । चूर्णमुष्टिरिव लम्भितकान्तिर्वासवस्य दिशमंशुसमूहः ॥
Metre: स्वागता

Verse 18
उज्झती शुचमिवाशु तमिस्रामन्तिकं व्रजति तारकराजे । दिक्प्रसादगुणमण्डनमूहे रश्मिहासविशदं मुखमैन्द्री ॥
Metre: स्वागता

Verse 19
नीलनीरजनिभे हिमगौरं शैलरुद्धवपुषः सितरश्मेः । खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गमिवाम्भः ॥
Metre: स्वागता

Verse 20
द्यां निरुन्धदतिनीलघनाभं ध्वान्तमुद्यतकरेण पुरस्तात् । क्षिप्यमाणमसितेतरभासा शम्भुनेव करिचर्म चकासे ॥
Metre: स्वागता

Showing 11 to 20 of 78 verses