किरातार्जुनीयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

किरातार्जुनीयम्

Enable Parallel


Showing 31 to 40 of 78 verses
Verse 31
गन्धमुद्धतरजःकणवाही विक्षिपन्विकसतां कुमुदानाम् । आदुधाव परिलीनविहङ्गा यामिनीमरुदपां वनराजीः ॥
Metre: स्वागता

Verse 32
संविधातुमभिषेकमुदासे मन्मथस्य लसदंशुजलौघः । यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥
Metre: स्वागता

Verse 33
ओजसापि खलु नूनमनूनं नासहायमुपयाति जयश्रीः । यद्विभुः शशिमयूखसखः सन्नाददे विजयि चापमनङ्गः ॥
Metre: स्वागता

Verse 34
सद्मनां विरचनाहितशोभैरागतप्रियकथैरपि दूत्यम् । संनिकृष्टरतिभिः सुरदारैर्भूषितैरपि विभूषणमीषे ॥
Metre: स्वागता

Verse 35
न स्रजो रुरुचिरे रमणीभ्यश्चन्दनानि विरहे मदिरा वा । साधनेषु हि रतेरुपधत्ते रम्यतां प्रियसमागम एव ॥
Metre: स्वागता

Verse 36
प्रस्थिताभिरधिनाथनिवासं ध्वंसितप्रियसखीवचनाभिः । मानिनीभिरपहस्तितधैर्यः सादयन्निव मदोऽवललम्बे ॥
Metre: स्वागता

Verse 37
कान्तवेश्म बहु संदिशतीभिर्यातमेव रतये रमणीभिः । मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितमप्युपकारि ॥
Metre: स्वागता

Verse 38
आशु कान्तमभिसारितवत्या योषितः पुलकरुद्धकपोलम् । निर्जिगाय मुखमिन्दुमखण्डं खण्डपत्रतिलकाकृति कान्त्या ॥
Metre: स्वागता

Verse 39
उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी । आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ॥
Metre: स्वागता

Verse 40
किं गतेन न हि युक्तमुपैतुं कः प्रिये सुभगमानिनि मानः । योषितामिति कथासु समेतैः कामिभिर्बहुरसा धृतिरूहे ॥
Metre: स्वागता