किरातार्जुनीयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

किरातार्जुनीयम्

Enable Parallel


Showing 51 to 60 of 78 verses
Verse 51
पातुमाहितरतीन्यभिलेषुस्तर्षयन्त्यपुनरुक्तरसानि । सस्मितानि वदनानि वधूनां सोत्पलानि च मधूनि युवानः ॥
Metre: स्वागता

Verse 52
कान्तसंगमपराजितमन्यौ वारुणीरसनशान्तविवादे । मानिनीजन उपाहितसंधौ संदधे धनुषि नेषुमनङ्गः ॥
Metre: स्वागता

Verse 53
कुप्यताशु भवतानतचित्ताः कोपितांश्च वरिवस्यत यूनः । इत्यनेक उपदेश इव स्म स्वाद्यते युवतिभिर्मधुवारः ॥
Metre: स्वागता

Verse 54
भर्तृभिः प्रणयसम्भ्रमदत्तां वारुणीमतिरसां रसयित्वा । ह्रीविमोहविरहादुपलेभे पाटवं नु हृदयं नु वधूभिः ॥
Metre: स्वागता

Verse 55
स्वादितः स्वयमथैधितमानं लम्भितः प्रियतमैः सह पीतः । आसवः प्रतिपदं प्रमदानां नैकरूपरसतामिव भेजे ॥
Metre: स्वागता

Verse 56
भ्रूविलाससुभगाननुकर्तुं विभ्रमानिव वधूनयनानाम् । आददे मृदुविलोकपलाशैरुत्पलैश्चषकवीचिषु कम्पः ॥
Metre: स्वागता

Verse 57
ओष्ठपल्लवविदंशरुचीनां हृद्यतामुपययौ रमणानाम् । फुल्ललोचनविनीलसरोजैरङ्गनास्यचषकैर्मधुवारः ॥
Metre: स्वागता

Verse 58
प्राप्यते गुणवतापि गुणानां व्यक्तमाश्रयवशेन विशेषः । तत्तथा हि दयिताननदत्तं व्यानशे मधु रसातिशयेन ॥
Metre: स्वागता

Verse 59
वीक्ष्य रत्नचषकेष्वतिरिक्तां कान्तदन्तपदमण्डनलक्ष्मीम् । जज्ञिरे बहुमताः प्रमदानामोष्ठयावकनुदो मधुवाराः ॥
Metre: स्वागता

Verse 60
लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा । वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने ॥
Metre: स्वागता