किरातार्जुनीयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

किरातार्जुनीयम्

Enable Parallel


Showing 31 to 40 of 47 verses
Verse 31
शुचिवल्कवीततनुरन्यतमस्तिमिरच्छिदामिव गिरौ भवतः । महते जयाय मघवन्ननघः पुरुषस्तपस्यति तपज्जगतीम् ॥
Metre: प्रमिताक्षरा

Verse 32
स बिभर्ति भीषणभुजंगभुजः पृथि विद्विषां भयविधायि धनुः । अमलेन तस्य धृतसच्चरिताश्चरितेन चातिशयिता मुनयः ॥
Metre: प्रमिताक्षरा

Verse 33
मरुतः शिवा नवतृणा जगती विमलं नभो रजसि वृष्टिरपाम् । गुणसम्पदानुगुणतां गमितः कुरुतेऽस्य भक्तिमिव भूतगणः ॥
Metre: प्रमिताक्षरा

Verse 34
इतरेतरानभिभवेन मृगास्तमुपासते गुरुमिवान्तसदः । विनमन्ति चास्य तरवः प्रचये परवान्स तेन भवतेव नगः ॥
Metre: प्रमिताक्षरा

Verse 35
उरु सत्त्वमाह विपरिश्रमता परमं वपुः प्रथयतीव जयम् । शमिनोऽपि तस्य नवसंगमने विभुतानुषङ्गि भयमेति जनः ॥
Metre: प्रमिताक्षरा

Verse 36
ऋषिवंशजः स यदि दैत्यकुले यदि वान्वये महति भूमिभृताम् । चरतस्तपस्तव वनेषु सदा न वयं निरूपयितुमस्य गतिम् ॥
Metre: प्रमिताक्षरा

Verse 37
विगणय्य कारणमनेकगुणं निजयाथवा कथितमल्पतया । असदप्यदः सहितुमर्हति नः क्व वनेचराः क्व निपुणा मतयः ॥
Metre: प्रमिताक्षरा

Verse 38
अधिगम्य गुह्यकगणादिति तन्मनसः प्रियं प्रियसुतस्य तपः । निजुगोप हर्षमुदितं मघवा नयवर्त्मगाः प्रभवतां हि धियः ॥
Metre: प्रमिताक्षरा

Verse 39
प्रणिधाय चित्तमथ भक्ततया विदितेऽप्यपूर्व इव तत्र हरिः । उपलब्धुमस्य नियमस्थिरतां सुरसुन्दरीरिति वचोऽभिदधे ॥
Metre: प्रमिताक्षरा

Verse 40
सुकुमारमेकमणु मर्मभिदामतिदूरगं युतममोघतया । अविपक्षमस्त्रमपरं कतमद्विजयाय यूयमिव चित्तभुवः ॥
Metre: प्रमिताक्षरा