नीतोच्छ्रायं मुहुरशिशिररश्मेरुस्रैरानीलाभैर्विरचितपरभागा रत्नैः । ज्योत्स्नाशङ्कामिव वितरति हंसश्येनी मध्येऽप्यह्नः स्फटिकरजतभित्तिच्छाया ॥
Metre: मध्यक्षामा
दधत इव विलासशालि नृत्यं मृदु पतता पवनेन कम्पितानि । इह ललितविलासिनीजनभ्रूगतिकुटिलेषु पयःसु पङ्कजानि ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
अस्मिन्नगृह्यत पिनाकभृता सलीलमाबद्धवेपथुरधीरविलोचनायाः । विन्यस्तमङ्गलमहौषधिरीश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः ॥
Metre: वसन्ततिलका
क्रामद्भिर्घनपदवीमनेकसंख्यैस्तेजोभिः शुचिमणिजन्मभिर्विभिन्नः । उस्राणां व्यभिचरतीव सप्तसप्तेः पर्यस्यन्निह निचयः सहस्रसंख्याम् ॥
Metre: प्रहर्षिणी
व्यधत्त यस्मिन्पुरमुच्चगोपुरं पुरां विजेतुर्धृतये धनाधिपः । स एष कैलास उपान्तसर्पिणः करोत्यकालास्तमयं विवस्वतः ॥
Metre: वंशस्थम्
नानारत्नज्योतिषां संनिपातैश्छन्नेष्वन्तःसानु वप्रान्तरेषु । बद्धां बद्धां भित्तिशङ्काममुष्मिन्नावानावान्मातरिश्वा निहन्ति ॥
Metre: शालिनी
रम्या नवद्युतिरपैति न शाद्वलेभ्यः श्यामीभवन्त्यनुदिनं नलिनीवनानि । अस्मिन्विचित्रकुसुमस्तबकाचितानां शाखाभृतां परिणमन्ति न पल्लवानि ॥
Metre: वसन्ततिलका
परिसरविषयेषु लीढमुक्ता हरिततृणोद्गमशङ्कया मृगीभिः । इह नवशुककोमला मणीनां रविकरसंवलिताः फलन्ति भासः ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
उत्फुल्लस्थलनलिनीवनादमुष्मादुद्धूतः सरसिजसम्भवः परागः । वात्याभिर्वियति विवर्तितः समन्तादाधत्ते कनकमयातपत्रलक्ष्मीम् ॥
Metre: प्रहर्षिणी
इह सनियमयोः सुरापगायामुषसि सयावकसव्यपादरेखा । कथयति शिवयोः शरीरयोगं विषमपदा पदवी विवर्तनेषु ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४