अखिलमिदममुष्य गैरीगुरोस्त्रिभुवनमपि नैति मन्ये तुलाम् । अधिवसति सदा यदेनं जनैरविदितविभवो भवानीपतिः ॥
Metre: प्रमुदितवदना
वीतजन्मजरसं परं शुचि ब्रह्मणः पदमुपैतुमिच्छताम् । आगमादिव तमोपहादितः सम्भवन्ति मतयो भवच्छिदः ॥
Metre: रथोद्धता
दिव्यस्त्रीणां सचरणलाक्षारागा रागायाते निपतितपुष्पापीडाः । पीडाभाजः कुसुमचिताः साशंसं शंसन्त्यस्मिन्सुरतविशेषं शय्याः ॥
Metre: जलधरमाला
गुणसम्पदा समधिगम्य परं महिमानमत्र महिते जगताम् । नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुमौषधयः ॥
Metre: प्रमिताक्षरा
कुररीगणः कृतरवस्तरवः कुसुमानताः सकमलं कमलम् । इह सिन्धवश्च वरणावरणाः करिणां मुदे सनलदानलदाः ॥
Metre: प्रमिताक्षरा
सादृश्यं गतमपनिद्रचूतगन्धैरामोदं मदजलसेकजं दधानः । एतस्मिन्मदयति कोकिलानकाले लीनालिः सुरकरिणां कपोलकाषः ॥
Metre: प्रहर्षिणी
सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्वृतममुम् । मता फलवतोऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥
Metre: जलोद्धतगति
श्रीमल्लताभवनमोषधयः प्रदीपाः शय्या नवानि हरिचन्दनपल्लवानि । अस्मिन्रतिश्रमनुदश्च सरोजवाताः स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥
Metre: वसन्ततिलका
ईशार्थमम्भसि चिराय तपश्चरन्त्या यादोविलङ्घनविलोलविलोचनायाः । आलम्बताग्रकरमत्र भवो भवान्याः श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥
Metre: वसन्ततिलका
येनापविद्धसलिलः स्फुटनागसद्मा देवासुरैरमृतमम्बुनिधिर्ममन्थे । व्यावर्तनैरहिपतेरयमाहिताङ्कः खं व्यालिखन्निव विभाति स मन्दराद्रिः ॥
Metre: वसन्ततिलका